________________
( ५५ )
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५ ॥ ततः भूतजयात्, तद्धर्मेति कायधर्मेत्यर्थः रूपलावण्यबलवज्ज्रसंहननत्वानि कायसम्पत् ॥ ४६ ॥ | ग्रहणस्वरूपास्मिता चयार्थवत्त्वसंयमादिन्द्रियजयः || ४७।। ततो मनोजवित्त्वं विकरणभावः प्रधानजयश्च ॥४८॥ ततः इन्द्रियजयात् । सत्त्वपुरुषान्यथाख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ॥ ४६ ॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ||५० ॥ तदुद्वैराग्यादपि सर्वभावाधिष्ठातृत्व सर्वज्ञातृत्वयोवैराग्यादि । स्थान्युपनिमन्त्रणेसङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ।। ५१ ।। क्षणतत्क्रमयोः संयमाद् विवेकजंज्ञानम् ॥ ५२ ॥ जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ तुल्ययोः सदृशयोः क्षणतत्क्रमयोः, ततोविवेकजज्ञानात् । तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ||५४ || सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ।। ५५ ।। परिणामत्रयसंयमादिनाऽतीतानागतज्ञानाद्यंश्वर्यस्य संभवम् सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यस्य सम्भवञ्च न युक्तमित्या वेदयितुमुपाध्याया इत्थमामनन्ति “अत्रेदं चिन्त्यम्-ऐश्वर्यं लब्धिरूपं न समाधिरूपसंयमजन्यं, वैचित्र्यप्रतियोगिनस्तस्य विचित्रक्षयोपशमादिजन्यत्वात्, एकत्र त्रयरूपस्य च संयमस्य चित्तस्थ एवोपयोगो बाहुल्येन श्रात्मद्रव्यगुणपर्याय गुणनरूपस्य च तस्य शुक्लध्यानशरीरघटकतया कैवल्य हेतुत्वमपि ॥ ईश्वरस्यानीश्वरस्य वा विवेकज्ञानवतस्तदभाववतो वा 'सत्त्वपुरुषयोः शुद्धिसाम्ये कैवाद्यम्' इत्यप्ययुक्तम्, विवेकजं केवलज्ञानमन्तरेणोक्त
1