________________
( ५४ ) न च तत् सालम्बनं तस्या विषयी भूतत्वात् । ॥२०॥ कायरूप. संयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥१॥ सोपक्रम निरुपक्रम चाकर्म तत् संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥२२।। मैव्यादिषु बलानि ॥२३॥ मैत्र्यादिष्वित्यत्र संयमादिति सम्बन्धनीयम्, एवमग्रेऽपि । बलेषुहस्तिबलादीनि ॥ २४ ॥ प्रवृत्त्या लोकन्यासासूक्ष्मव्यवहितविप्रकृष्टार्थज्ञानम् ।।२५॥ भुवनज्ञानं सूर्ये संयमात् ॥ २६॥ चन्द्रे ताराज्ञानम् ॥२७॥ सप्तम्यता. नन्तरं प्रकृते सर्वत्र संयमादिति योज्यम् । ध्र वे तद् गतिज्ञानम् ॥२८॥ नाभिचक्रेकायव्यूहज्ञानम् ॥२६॥ कण्ठकूपे क्षुपिपासानिवृत्तिः ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३१॥ मूर्धज्योतिषिसिद्धदर्शनम् ॥३२॥ प्रातिभावा सर्वम् ॥३३॥ हृदयै चित्तसंवित् ॥३४॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ ३५ ॥ ततः प्रातिभश्रावणवेद नादस्विादवा जायन्ते ॥३६॥ ततः पुरुषज्ञानात् । ते समाधावुपस
व्युत्थाने सिद्धयः ॥ ३७॥ ते प्रातिभश्रावणवेदनास्वादवार्ताः । बन्धकारणशैथिल्यात्प्रचारसंवेदनाञ्च चित्तस्यपरशरीरप्रवेशः ॥३८।। उदानजपाञ्जलपङ्ककण्टकादिष्वसङ्गउत्कान्तिश्च ॥३६॥ समानजपाजवलनम् ॥ ४० ॥ उदानसमानावान्तरवायुविशेषौ । श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् ॥४१॥ कायाकाशयोः सम्बन्धसंयमालतूलसमापत्तेश्चाकाशगमनम् ॥४२।। बहिरकल्पितावृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥ ततः महाविदाख्यवृत्तितः । स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥४४॥