________________
॥ अथ त्यो वितिपादाः ।। देशबन्धश्चित्तस्य धारणा ॥१॥ तत्र प्रत्ययकतानता ध्यानम् ॥२॥ तत्रधारणायाम्। तदेवार्थमात्रनिर्भासंस्वरूपशून्यमेव समाधिः ॥३॥ तदेव ध्यानमेव । त्रयमेकत्र संयम ॥४॥ एकगतं धारणाध्यान समाधि त्रयं संयम इत्यर्थः । तज्जयात् प्रज्ञालोकः ॥ ५॥ तज्जयात् संयमजयात् । तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य प्रज्ञालोकस्य योगभूमिषु विनियोगो भवति । त्रयमन्तरङ्ग पूर्वेभ्यः ॥ ७ ॥ पूर्वेभ्यो यमनियमासनप्राणायाम प्रत्याहारारेभ्यः पञ्चभ्यो योगस्य सवीजस्यान्तरङ्ग धारणाध्यानसमाधित्रयमित्यर्थः । तदपि बहिरङ्ग निर्वीजस्य ॥ ८॥ असम्प्रज्ञातयोगस्य धारणाध्यानसमाधित्रयमपि बहिरङ्गमित्यर्थः ॥ च्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावी निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥६॥ तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥ तस्यनिरोधपरिणामस्य । सर्वार्थंकाग्रतयोः क्षयो. दयौ चित्तस्य ततः पुनः समाधिपरिणामः ॥ ११॥ शान्तोदिती तुल्यप्रत्ययौ चित्तस्यैकाग्रत परिणामः ॥ १२ ।। एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥ शान्तोदितात्यपदेश्य धर्मानुपाती धर्मो ॥ १४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥ परिणामत्रयसंयमादतोतानागतज्ञानम् ॥ १६ ॥ शब्दार्थ प्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञ नम् ॥१७॥ संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥ प्रत्ययस्यपरिचित्तज्ञानम् ॥१६॥ प्रत्ययस्येत्यनन्तरं संयमादिति योज्यम् ।