________________
( ५२ ) इवेन्द्रियाणां प्रत्याहारः ॥५४॥ ततः परमावश्यतेन्द्रियाणाम् ॥५५॥ ततः प्रत्याहारात् । अत्र उपाध्याया इत्थमामनन्ति “व्युत्थातध्यानदशासाधारणं वस्तुस्वभावभावनया स्वविषयप्रतिपत्ति प्रयुक्त. रागद्वषरूपफलानुपधानमेवेद्रियाणां परमो जय इति तु वयम्, तथोक्तं-शीतोष्णीयाध्ययने 'जस्सिमे सद्दाय रूवाय गधाय रसाय फासाय अभिसमन्नागया भवंति से आयवं नाणवं वेयवं धम्मवं बंभवं' इत्यादि, अत्र 'अभिसमन्वागता इत्यस्य अभीत्याभिमुख्येन मनः परिणामपरतन्त्रा इन्द्रियविषया इत्युपयोगलक्षणेन, समिति सम्यक्त्वरूपेण नैते इष्टा अनिष्टावेति निर्धारणया, अनु पश्चात्, आगताः परिच्छिन्ना यथार्थस्वभावेन यस्येत्यर्थः, स आत्मवानित्यादिपरस्परमिन्द्रियजयस्य फलार्थवादः, अन्यत्राप्युक्तम् "ण सक्कारूव भट्ट, चकखु विसयगभागयं ।
रागदोसा उजेतत्त्थ, ते भिक्खू परिवजये ॥१॥" इत्यादि, चित्तनिरोधादतिरिक्तप्रयत्नानपेक्षत्वं तु परमेन्द्रियजये ज्ञानेक साध्ये प्रयत्नमात्रानपेक्षत्वादेव निरूप्यते, तथा च स्तुतिकारः'संयतानिनचाक्षाणि नैवोच्छृङ्खलितानि च । ___ इति सम्यक् प्रतिपदा त्वयेन्द्रिय जयः कृतः ॥१॥' इति, न च प्राणायामादि हठयोगाभ्यासश्चित्तनिरोधे परमेन्द्रिय जये च निश्चित उपायोऽपि, 'ऊसासं ण णिरंभइ' इत्याद्यागमेन योगसमाधानविघ्नत्वेन बहुलं तस्य निषिद्धत्वात्, तस्मादध्यात्मभावनोपबृहितसमतापरिणामप्रवाहीज्ञानाख्यो राजयोग एव निवृत्तेन्द्रियस्यपरमेन्द्रियजयस्य चोपाय इति युक्तम्' इति । इति द्वितीयः साधननिर्भासपादः ॥