________________
( ५१ ) 'भावशौचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति तत्त्वदर्शिनः' इति वितर्क बाधने प्रतिपक्षभावनम् ॥ ३३ ॥ वितर्का हिंसादय-कृतकारिलानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्त फला इति प्रतिपक्षभावनम् ॥ ३४ ॥ अहिंसाप्रतिष्ठायां तत् सन्निधौ वैरत्यागः ॥ ३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥ अस्त्येपप्रतिष्ठायां सर्वरत्नोपस्थानम्॥३७॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥३८।। अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥३६॥ शौचातवाङ्गजुगुप्सापररसंसर्गः ॥४०॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥ चकारात् सत्त्वशुद्ध यादीनि शौचाद् भवन्ति । सन्तोषादनुत्तमः सुख लाभः ॥४२॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥४४॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥ स्थिरसुखमासनम् ॥ ४६॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥ स्थिरसुखमासनं भवतीति संटङ्कः । ततो द्वन्द्वानभिघातः॥४८॥ निरुक्तासनतश्शीतोष्णादि द्वन्द्वाभिघातो न भवति । तस्मिन्सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः ॥ ४६॥ तस्मिन् सति द्वन्द्वानभिघाते सति, कथम्भूतः प्राणायाम इत्याकाङ्क्षायामाह बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्घयाभिः परिदृष्टोदीर्घसूक्ष्मः ॥५०॥ प्राणायाम इति सम्बध्यते, बाह्याभ्यन्तरविषयाक्षेपो चतुर्थः ॥५१॥ चतुर्थः प्राणायामः । ततः क्षीयते प्रकाशावरणम् ॥५२॥ ततः प्राणायामात् । धारणासु च योग्यतामनसः ॥ ५३॥ चकरात् प्राणायामादिति सम्बध्यते । स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार