________________
( ५० ) पाध्यायाः-निश्चयनयमतमेतद्, यदुपजीव्याह स्तुतौ महावादी'भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तजितम् । न च होनकलोऽसि नाधिकः समतां नाप्यतिवृत्त्यवर्तसे ॥१॥' इति । प्रागभाव-प्रध्वंसाभावानभ्युपगमे सर्वमेतदुक्तमनुपपन्नम् तदुक्तमकलङ्कन'कार्यद्रव्यमनादिस्यात् प्रागभावस्य निह्नवे। प्रध्वंसस्यापलापेतु तदेवानन्ततां व्रजेत् ॥१॥' तदुपगमे तु द्रव्यपर्यायोभयरूपत्वाद सर्वत्रत्रलक्षण्येन कथञ्चिदेषाव्यवस्थायुज्येतापीति वयं वदामः' इति । द्रष्टाहशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥ तदर्थ एव दृश्यस्यात्मा ॥२१॥ कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥ तस्य हेतुरविद्या ॥२४॥ तस्य संयोगस्य । तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥ २५ ॥ तदभावात् अविद्याया अभावात्, तत् संयोगाभावलक्षणंहानम् । विवेकख्यातिरविप्लवाहानोपायः ॥२६॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्य हानोपायस्य । योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२६॥ अङ्गानि चित्तवृत्तिनिरोधलक्षणयोगाङ्गानि, अहिंसासत्यास्त्येय ब्रह्मचर्यापरिग्रहा यमाः ॥३०॥ जातिदेशकालसमयानवच्छिन्ना सार्वभौमा महाव्रतम् ॥३१॥ अत्र यमा इति सम्बन्ध्यन्ते । अत्रोपाध्यायाः-सर्वशब्दगर्भप्रतिज्ञया महाव्रतानि, देशशब्दगर्भप्रतिज्ञया चाणुव्रतानीति पुनः पारमार्षविवेकः, एकवचनं चात्र सर्वप्रतिज्ञया पञ्चानामपि तुल्यत्वाभिव्यक्तयर्थम्' इति । शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः॥३२॥अत्रोपाध्यायाः