________________
( ४६ ) 'अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।
हृदयस्थिते च तस्मिन् नियमात् सर्वार्थ संसिद्धिः ॥१॥' इत्यादीत्यस्मन्मतम् ' इति ।
समाधिभावनार्थः क्ल शतनूकरतार्थश्च ॥२॥ क्रियायोग इति सम्बध्यते, अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥३॥ अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥ हगदर्शनशक्तयोरेकात्मतवास्मिता ॥६॥ सुखानुशायी रागः ॥७॥ दुःखानुशायी द्वेषः ॥८॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥६॥ अत्राविद्यादीनां प्रसुप्तत्वादीनां च स्वरूपनिर्वचनं स्वसिद्धानुसारिकृतमुपाध्याय जिज्ञासुभिरवलोकनीयंतत् । ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥ ते अविद्यादयः, प्रतिप्रसवहेया इति क्षीणमोहसम्बन्धियथाख्यातचरित्र हेया इत्यर्थों जैनमतानुसारी। ध्यानहेयास्तवृत्तयः ॥ ११ ॥ तद् वृत्तयः अविद्यादिवृत्तयः । क्लेशमूल: कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ सतिमूले तद्विपाको जात्यायु गाः ॥१३॥ अत्रोपाध्याय जैनराद्धान्तो विस्तरेण प्रतिपादितो विशेषजिज्ञासुभिरवलोकनीयः। ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते जात्यायु गाः । परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः ॥१५॥ हेयं दुःखमनागतम् ॥१६॥ द्रष्टदृश्ययोः संयोगो हेयहेतुः ॥१७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गाथं दृश्यम् ॥१८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१६॥ अत्री