________________
( ४८ ) वेदितम् "पर्यायोपरक्तानुपरक्तस्थूलमूक्ष्मद्रव्यभावनारूपाणामेतासां शुक्लध्यानजीवानुभूतानां चित्तैकाञ्चकारिणीनामुपशान्तमोहापेक्षया सवीजत्वम्, क्षीणमोहापेक्षया तु निजित्वमपि स्यादितित्वाहतसिद्धान्तरहस्यम्" इति, निर्विचारवैशारोऽध्यात्मप्रसादः ॥४७॥ ऋतम्भरा नाम्नी प्रज्ञोपजायते । श्रुतानुमानाभ्यामन्यविषया विशेषार्थत्वात् ॥४६॥ ऋतम्भराप्रज्ञायां श्रुतानुमानभिन्नविषयत्वे हेतुः विशेषार्थत्वात् विशेषविषयत्वादित्यर्थः । तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी॥५०॥ तज्जः ऋतम्भराप्रज्ञाजन्यः। तस्यापि निरोधे सर्वनिरोधानिज्जः समाधिः ॥५१॥ तस्यापि ऋतम्भराप्रज्ञाजन्यसंस्कारस्यापि ऋतम्भराप्रज्ञास्वरूपे उपाध्याया इत्थमामनन्ति । सन्ध्येव दिनरात्रिभ्यां केवलाञ्च श्रुतात्पृथग्।
बुधरनुभवो दृष्टः केवलार्कारुणोदयः ॥१॥ • इत्यस्मदुक्तलक्षणलक्षितानुभवापरनामधेया शास्त्रोक्तायां दिशि, तदतिक्रान्तमतीन्द्रियं विशेषमवल बमानातत्त्वतो द्वितीयापूर्वकरणभाविसामथ्यंयोगप्रभवेयं समाधि प्रज्ञा, इति युक्तः पन्थाः इति समाधिपादः।
अथ साधननिर्देशपादः । तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥ अत्रोपाध्यायाः
'बाह्यं तपः परमदुश्चरमाचरध्व-माध्यात्मिकस्य तपसः परिबृ. हणार्थम्' इत्यस्मदीयाः, सर्वत्रानुष्ठाने मुख्यप्रर्वतकशाखस्मृतिद्वारा तदादिप्रवर्तकपरमगुरोर्ह दये निधानमीश्वरप्रणिधानम्, तदुक्तम्