________________
( ४७ ) प्रश्वासा विक्षेपसहभुवः ॥३१॥ तत् प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥ तत् पदेन चित्तविक्षेप तत् सहभुवां परामर्शः । मैत्रीकरणामुदितो पेक्षाणां सुखदुःख पुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥ उपाध्यायैः स्वसिद्धान्तसिद्धमैत्र्यादि स्वरूपमुपणितम्, प्रच्छदनविधारणाभ्यां वा प्राणस्य ॥३४॥ अथवा प्राणस्य प्रच्छर्दनं निष्कासनं, विधारणं गतिप्रतिबन्धेनैकत्रावस्थापन ताम्यां चित्तप्रसादनं भवतीत्यर्थः, अत्र स्वमतमुपाध्याय र्दशितं यथा-'अनैकान्तिकमेतत्, प्रसह्य ताभ्यां मनोव्याकूलीभावात्, 'उसासंण णिकंभइ' इत्यादि पारमर्षेण तनिषेधाच्च, इति वयम्' इति ।
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥३५॥ चित्तप्रसादनमिति सम्बध्यते, एवमग्रेऽपि, विशोका वा ज्योतिष्मती ॥३६॥ वीतरागविषयं वा चित्तम् ॥३७॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥३८॥ यथाभिमतध्यानाद्वा ॥३६॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥ अस्य चित्तस्य । क्षीणवृत्तेरभिजातस्येव मणे होत ग्रहणग्राह्येषु तत्स्थतदजनता समापत्तिः ॥४१॥ क्षीणवृत्तरित्यत्र मनस इति सम्बध्यते । तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥४२॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवा र्थमात्रनिर्भासा निर्वितर्का ॥४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्म विषया व्याख्याता ॥४४॥ सूक्ष्म विषयत्वञ्चालिङ्गपर्यवसानम् ॥४५॥ ता एव सवीजः समाधिः ॥४६॥ ता एव उपदशितास्समापत्तय एव । अत्रोपाध्यायरिद स्वसिद्धान्तरहस्यमा