________________
( ४६ ) सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः ॥२॥' इत्यादि, संस्कारशेषत्वश्चात्र भवोपग्राहिकर्मांशरूपसंस्कारापेक्षया व्याख्येयम्, मतिज्ञानभेदस्य संस्कारस्य तदा मूलत एव विनाशात्, इत्यस्मन्मत निष्कर्ष इति दिक्' इति । भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१६॥ भवप्रत्ययः भवकारणकः, अत्र 'उपशान्तमोहत्वेनोक्तानां लयसप्तमानां ज्ञानयोगरूपसमाधिमधिकृत्येदं प्रवृत्तमेतदस्मत्मतमित्युपाध्यायाः । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥ . इतरेषां विदेहप्रकृतिलयभिन्नानाम् । तीव्रसंवेगानामासन्नः।२१॥ समाधिरित्यनुवर्तते। मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ।२२॥ ईश्वरप्रणिधानाद्वा ॥ २३ ॥ समाधिः सम्बध्यते, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥ पूर्वमेवैतद्व्याख्यातम् । तत्र निरतिशयं सर्वज्ञवीजम् ॥२५॥ तत्र पुरुषविशेष, पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥२६॥ ईश्वरः सम्बध्यते। कालेनानवच्छेदादित्यनेन नित्यमुक्तत्वमावेदितं, तदपाकरणं च कृतमुपाध्यायेन । तस्य वाचकः प्रणवः ॥२७॥ तस्य ईश्वरस्य । तज्जपस्तदर्थभावनम् ॥२८॥ तत् पदेन प्रणवस्याँकारस्य परामर्शः । ततः प्रत्यक्चेतनाधिगमोऽपि, अन्तरायाभावश्च ॥२६॥ ततः प्रणवार्थभावनतः, प्रत्यक्चेतनाधिगमःशरीरादिव्यतिरिक्तात्म स्वरूपज्ञानम्, चकरात् तत इति सम्बध्यते प्रणवजपतदर्थ भावनतोऽन्तरायाभावो भवति । के अन्तराया इत्याकाङक्षायामाहव्याधिस्त्यानसंशय प्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥३०॥ दुःखदौर्मनस्याङ्ग मेजयत्वश्वास