SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ( ४३ ) निष्पाद्यत्वमुच्चार्यत्वं न तूत्पाद्यत्वम्, भगवतश्चादृष्टाभावेऽपि तच्छरोरसाध्यघटादिजन्यभोगजनकादस्मदाद्यदृष्ट रेव तच्छरीरं निष्पाद्यते, अनुग्राहकः शिक्षाद्वारा घटादि निर्माणे कुलालादीनामनुग्रहकारीत्यर्थः, क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वर इति तत् सूत्रम्, तत्र पुरुषविशेष इत्यनेन निर्माणकायमधिष्ठाय सम्प्रदाय प्रद्योतकोऽनुग्राहकश्चेत्यस्य सूचनम्, पाताञ्जलयोगदर्शनस्य समाधिवाद साधननिर्देशवादविभूतिवाद-कैवलवादभेदेन चत्वारः वादाः, तत्र प्रथम वादे 'अथ योगानुशासनम् ॥१॥ योगश्चित्तवृत्तिनिरोधः ॥२॥ सर्वचित्तवृत्तिनिरोधत्वस्यासम्प्रज्ञातसमाधौ सत्त्वेऽपि सम्प्रात समाधावभावादब्याप्तिदिति क्लिष्टचित्तवृत्तिनिरोधो योग इति लक्षणं ज्ञेयम् । तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥ चित्तवृत्तिनिरोधकाले द्रष्टा स्वस्वरूपेऽवतिष्ठते । वृत्तिसारूप्यमितरत्र ॥४॥ इतरत्र अन्यकाले, वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६ ॥ तत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥ विपर्ययो मिथ्याज्ञान मतद्रूपप्रतिष्ठम् ॥८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥६॥ अभावप्रत्ययालम्बनावृत्ति निद्रा॥१०॥ अनुभूतविषया सम्प्रमोवः स्मृतिः ॥११॥ विकल्पनिद्रास्मृतिषु न्यायविशारदस्येत्थं तर्कणम्अत्र विकल्पः शब्दान्नाखण्डालोकनिर्भासः असत्ख्यात्यसिद्धेः, किन्तु 'असतो णाथि णिसेहो' इत्यादि भाष्यकृद् वचनात् खण्डशः प्रसिद्धपदार्थानां संसर्गारोप एव, अभिन्न भेदनिर्भासादिस्तु नयात्मा प्रमाणेक देश एव ॥६॥
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy