________________
( ४२ )
"पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
शिखी मुण्डी जटी वापि मुच्यते नात्र संशयः || १||" इति, बन्धश्च प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधः, तत्र प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धी: पुरुषबुद्धयोपासते तेषां वैकारिको बन्धः, इष्टापूर्ते दाक्षिण:, पुरुषतत्त्वानभिज्ञो हीष्टापूर्त्तकारी कामोपहतमनावबुद्धधत इति । इति संक्षेपेण कापिलदर्शन दिग्दर्शनम्, तान्येव चतुर्विंशतितत्त्वान्येव, पाताञ्जलमतान्यपि पतञ्जलिमुन्यनुयायि योगाचार्य मतान्यपि एतावाँस्तु विशेषः क्ल ेशकर्म विपाकाशयै रपरामृष्टो निर्माणका यमधिष्ठाय संप्रदाय प्रद्योतकोऽनुग्राहक श्वेश्वरः पतञ्जलिनाभ्युपगतः, तत्र अविद्याऽस्मिता रागद्वषाभिनिवेशा: क्रुशाः, अविद्या मिथ्याज्ञानम् अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिः, अस्मिता बुद्ध्यात्मनोरेकत्वेन ज्ञानमित्येके, अहङ्कार इत्यन्ये, रागद्वेषौ कामक्रोधौ, अभिनिवेशो मरणभयम्, यद्यपि तन्मते क्लेशादीनामन्तः करणधर्मत्वात् क्षेत्रज्ञानमपि तदपरामृष्टत्वमस्त्येव, तथापि अन्तः करणवत्तिभिरपि क्लरेशादिभिर्न परामृश्यते स भगवानीश्वर इति व्यक्तं योगभाष्ये इति मकरन्दः, कर्मधर्माधर्महेतुर्भावनासाध्यं यागहिंसादि, विपाको जात्यायुर्भोगाः, फलपर्यन्तमाशेरत इत्याशया धर्माधर्माः तं रपापमृष्टः, शरीरंकनिष्पाद्यवेदादिनिर्माणार्थंकायो निर्माणकायस्तमधिष्ठायोपादाय, सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो वेदस्तस् प्रद्योतकः प्रकाशको यतोवेदोऽनादिरेव भगवता द्योत्यते, वेदे