________________
( ४१ ) एतन्मते, प्रमाणं प्रत्यक्षानुमानागमभेदेन त्रिविधम्, तत्र चक्षुरादीन्द्रियजन्यं ज्ञानं निर्विकल्पकम्, आलोचनमित्याख्यायते, मानसन्तु सविकल्पकम्, साध्यहेत्वविनाभावज्ञानजन्यं ज्ञानमनुमानम्, तत् पूर्ववत् शेषवत् सामान्यतो दृष्टश्चेति त्रिविधम् कारण लिङ्गकमनुमानं पूर्ववत्, कार्यलिङ्गकमनुमानं शेषवत्, तदुभयभिन्नमनुमानं सामान्यतो दृष्टः, आप्तश्रुतिरागमः तदुक्तम्"प्रतिविषयाध्यवसायोऽध्यक्षं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वक-माप्तश्रुतिराप्तवचनञ्च ॥१॥" इति, उक्तप्रकृत्यादिप्रक्रियायामस्मदाद्यप्रत्यक्षभूतायां प्रत्यक्षपूर्वकानुमानाविषयीभूतायामाप्तश्रुतिरक्षणागम एव प्रमाणम्, तदुक्तम्"सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्ध परोक्षमाप्तागमात् सिद्धम् ॥१॥" इति, उक्त पञ्चविंशतितत्त्वमजानतः पुंसः प्रकृत्यासहाभेदज्ञानलक्षण संयोगात् संसारो भवति, प्रकृति डाऽपि कर्तृ स्वभावा पुरुषोऽक
ऽपिचेतनस्वभावः तयो दर्शनकवल्याथिनोरक्तस्वरूपसंयोगात् पङ्ग बन्धयोः संयोगादभीष्टदेशगमनवत् संसार उपपद्यते तदुक्तं"पुरुषस्य दर्शनार्थ कैवल्यार्थ प्रधानस्य ।
पङ्ग वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः" ॥१" इति, पञ्चविंशतितत्त्वज्ञस्य पुनः प्रकृतिपुरुषभेदख्यातौ केवलज्ञानपर्यवसानायां त्रिविधबन्धविच्छेदात् प्रकृतिवियोगलक्षणो मोक्षोभवति, तदुक्तं