________________
( ४० ) आत्माहि स्वं बुद्धेरव्यतिरिक्तं मन्यते, सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुद्धिश्चोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, ततः सुख्यहं दुख्यहमित्युपचर्यते, उक्तश्वपतञ्जलिना
"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपितदात्मक इव प्रतिभासते" इति, मुख्यतस्तु चिच्छक्तिविषयपरिच्छेदशून्या, बुद्ध रेव विषयपरिच्छेदस्वभावत्वात्, चिच्छकिसन्निधानाच्चाचेतनाऽपिबुद्धिश्चेतनावतीवावभासते, तदुक्तं"तस्मात् तत् संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकत्र्तृत्वे च तयाकर्त्तव भवत्युदासीनः ॥१॥" इति, वादमहार्णवोऽप्याह-बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यधिरोहति, तदेव भोक्तृत्वमस्य, न तु विकारापत्तिः' इति, तथाचासुरिः"विविक्त दृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥१॥" इति, . विन्ध्यवासीत्येवं भोगमाह
'पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥१॥" इति,
ईश्वरश्वाचेतनप्रेरकः कापिलनेष्यते अचेतनस्य चेतनाधिष्ठितस्यैवप्रवृत्तिरिति नियमानभ्युपगमात् स्वभावादेव प्रकृतिः पुरुषार्थसिद्धये प्रवर्तते, तदुक्तम्"वत्स विवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्ति रज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥१॥" इति,