________________
( ३६ ) प्रलयकाले पञ्चभूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारस्तु बुद्धौ, बुद्धिः प्रधान इति, अविभागोऽविवेको यथा क्षीरावस्थायामन्यतत्क्षीरमन्यद् दधीति विवेको न शकयोऽभिधातुम, तद्वत् प्रलयकाले 'इदं व्यक्तमिदमव्यक्तम्' इति विवेकोऽशकयक्रियत इति मन्यामहेऽस्ति प्रधानं यत्र महदादिलिङ्गमाविभागं गच्छतीति, उक्तदिशा कार्यत उपलब्धेरेवानुपलम्भो न प्रकृतेरभावात् तदुक्तम्"अतिदूरात सामीप्यादिन्द्रियघातान् मनोऽनवस्थानात् ।
सौम्याद् व्यवधानादभिभवात् समानाभिहाराच्च ॥१॥ सौक्षम्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुदलब्धेः ।।
महदादि तच्च कार्य प्रकृतिस्वरूपं विरूपच्च ॥२॥" इति, प्रकृतिपरिणामभूतायाबुद्धेरष्टौ रूपाणि धर्मज्ञानवैराग्यश्वर्यरूपाणि चत्वारि सात्विकानि, तत्प्रतिपक्षभूतानि- अधर्माज्ञाना वैराग्यानैश्वर्याणि चत्वारि तामसानीत्यष्टौ, पञ्चविपर्ययाष्टाविशत्यशक्तिनवविधतुष्ट्यष्ट सिद्ध यात्मक पञ्चाशद् धर्मवती च बुद्धिः, तत्परिणामा प्रकृतिरेव की भोक्त्री बध्यते मुच्यते च, पुरुषस्तु कूटस्थनित्यः चेतनो न कर्ता नापि भोक्ता न बध्यते न न मुच्यते तदुक्तं'तस्मान्न नंसरति नापि मुच्यते कश्चित् ।
संसरति मुच्यते च नानाश्रया प्रकृतिः ॥१॥' इति, अमूर्तश्चेतनोऽभोगी नित्यः सर्वगतोऽक्रियः । अकुर्ता निर्गुणः सूक्ष्म आत्माकपिलदर्शने ॥१.। इति च,