________________
( ३८ ) भेदानां महदादीनां, परिमाणं दृश्यते-एकाबुद्धि रेकोऽहङ्कारः पञ्चतन्मात्राण्येकादशेन्द्रियाणि पञ्चमहाभूतानीति, ततस्तत् कारणमेकमेष्टव्यं, परिमितत्वेनोपलभ्यमानघटादेरिव मृदादि, तदेव प्रधानम् । तथा भेदानां समन्वयात् कारणजात्यनुवृत्तिदर्शनात्, यजाति समन्वितं यदुपलभ्यते तत् तन्मयकारणसम्भूतम्, यथा घट शरावादयो मृजात्यन्विता मृदात्मककारणसम्भूताः, सुखदुःखमोहादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते, प्रसादतापदन्यादिकार्योपलब्धेः, तथाहि लाघवाभिष्वाङ्गाधर्षप्रोतयः सत्त्वस्य कार्यम्, सुखमिति च सत्त्वमेवोच्यते, तापशोषभेदस्तम्भोद्वेगा रजसः कार्य, रजश्चदुःखम्, दैन्यावरणसादनावध्वंसबीभत्सगौरवाणि तमसः कार्य, तमश्च मोहशब्देनोच्यवे, एषां च महदादीनां सर्वेषां प्रसादतापदन्यादिकार्यमुपलभ्यत इति सुखदुःखमोहानां त्रयाणामेते सन्निवेशविशेषा इत्यवसीयते, तेन सिद्धमेतेषां प्रसादादिकार्यतः सुखाद्यन्वितत्वम्, तदन्वयाच्च तन्मयप्रकृतिसम्भूतत्वमिति प्रधानसिद्धिः। तथेह लोके यो यस्मिन्नर्थे प्रवर्तते स तत्र शक्तो यथा तन्तुवायः पटकारणे, अतोव्यक्तोत्पादनाथ प्रवर्त्तमानं किञ्चित्कारणं शक्तिमदेष्टव्यं, तदेव प्रधानमिति शत्तितः प्रधानसिद्धिः, तथेह लोके कार्यकारणयो भिगागो दृष्टः, तद्यथा मृपिण्डः कारणं घटः कार्य, स च मृपिण्डाद्विभक्तः, तथाहि घटो मधूदकपयसां धारणसमर्थो न मृत्पिण्डः, एवमिदं महदादिकार्यमपि विभक्तमुपलभ्यमानं प्रधानं कारणं साधयतीति तथा वैश्वरूप्यं नाम त्रयो लोकाः तदविभागात् प्रधानसिद्धिः, तथाहि