________________
( ३७ ) कुतश्चिद् भवति नतु सर्व सर्वस्मादिति नोक्त प्रसङ्ग भ्यः सत्कार्यसिद्धिरिति, असदेतत्, यतः शक्ता अपि हेतवः कार्य कुर्वाणाः शकचक्रियमेव कुर्वन्ति नाशक्यक्रियम्, असच्च कार्य शशविषाणवदनाधेयातिशयत्वादशकयक्रियम्, न च प्रागसदपि सामग्रीसम्पत्ती सदावस्थाप्रति त्ते विक्रियत इति शकयक्रियम्, तस्य विकृताविष्यमाणायां निरुपाख्या सद्रूपहानिप्रसङ्गात्, नासतः स्वभावापरित्यागे सद्रूपतापत्तिर्युक्ता, परित्यागे वा नासदेव सद्रूपतां प्रतिपन्नमिति सिद्धयेत्, अन्यदेव हि सद्रूपमन्यच्चासद्रूपम्, परस्परपरि हारेण तयो अस्थितत्वात्, तस्माद्यदसत् तदशकयक्रियमेव, तथा भूतकार्यकारित्वाभ्युपगमे च कारणानामशकयकारित्वमेवाभ्युपगतं स्यात, तच्चातिप्रसङ्गापयुक्तमिति शक्तिप्रतिनियमाद् सत्कार्यऽतिलियम इत्यनुत्तरम्, एतेन शक्तस्य शकय करणादिति चतुर्थो हेतु ख्यिातः, "कार्यस्यैव नयोगाच्च किं कुर्वतकारणं भवेत् ।
ततः कारणभावोऽपि वीजादे नं विकल्प्यते ॥१॥" इति पञ्चमहेतुसमर्थनस्यार्थः, यथोक्तहेतुचतुष्टयादसत् कार्यवादे सर्वथा कार्यस्यायोगात् कि कुवदंबोजादिकारणं भवेत्, तथा चैवं शकयते वक्त - न कारणं बीजादिकमविद्यमान कार्यत्वाद गगनाब्जवत्, नचैवं, तस्माद् विपर्यय इति सिद्धं प्रागुत्पत्तेः कार्य सत् । स्यादेतत्-एवं हि नाम सत्कार्य सिध्यतु, प्रधानादेव महदादिकार्य भेदा इत्येतत्तु कथं सिध्यति, उच्यते"भेदानां परिमाणात समन्वयाच्छक्तितः वृत्तश्च ।
कारणकार्यविभागादविभागाद्वश्वरूप्यस्य ॥१॥"