________________
( ३६ ) व्यक्त सदाकारणापत्तत्वात्परतन्त्रं, नैवमव्यक्तम्,अकारणाधीनत्वात सर्वदा तस्येति न, परमार्थतस्ताद्रूप्येऽपि प्रकृतिविकृतिभेदेन तयो अंदा विरोधात्, विकाराणां स्वभावतस्वैगुण्यरूपेण प्रकृतिरूपत्वेऽपि सत्त्वरजस्तमसामुत्कटत्वविशेषान् महदादिभेदेन सर्गवचित्र्यसिद्धेः, वैधयं ह्येतन्नतुभेद इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति, अत्रेदं हेतुकदम्बमुद्भावयन्ति " असदकरणादुपादान ग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शकरकरणात् कारणभावाच्च सत्कार्यम् ॥ १॥' __यद्यसक्रियेत तदा नभोनलिनमपिक्रियेत, नचैवं भवति, तस्माद्यक्रियते तिलादिभिस्तैलादिकार्य तत् तस्मात् प्रागपि शक्तिरूपेण सिद्धं, व्यक्तिरूपेण तु तत् तदा कापिलरपि नेष्यते इति न व्यवहारबाधः, तथा यद्यत्सत्कारणे कार्य भवेत् तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात्, शालिफलार्थिनश्च शालिबीजमेवोपाददते, न कोद्रवबीजम्, शालिबीजादिषु शालिफलादोनामसत्त्वे च तद्वत् कोद्रवबीजानामपि ग्रहणप्रसङ्गः, नचैवं भवति, तस्मात् तत्र तत् कार्यमस्तीति गम्यते, तथा यद्यसदेव कार्यमुत्पद्यते तदा तृणपांश्वादेः सर्वस्वर्णरजताद्युत्पत्तिप्रसङ्गः, पूर्व कारणमुखेन प्रसङ्ग उक्तः सम्प्रति तु कार्यमुखेनेति विशेषः, न च सर्व सर्वतो भवति, तस्मादयं नियमः तत्रैव तत् सद्भावादिति गम्यते। स्यादेतत्- कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः तेन कार्यस्यासत्त्वेऽपि किञ्चिदेवकार्य क्रियते न नभो नलिनम्, किञ्चिदेवोपादानमुपादीयते यदेव समर्थम्, किञ्चिदेव