________________
( ३५ ) 'त्रिगुणन विवेक विषयः सामान्यमचेतनं प्रसवर्धाम ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥१॥ ' इति, अथ यदि तद्रूया एव कार्यभेदाः कथं शास्त्रे व्यक्ताव्यक्तयो वैलक्षण्योपवर्णनं " हेतुमदनित्यमव्यादि, सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं, व्यक्तं विपरीतमव्यक्तम् ॥१॥ इति
क्रियमाणं शोभेत, अत्र ह्ययमर्थः, हेतुमत् कारणवद् व्यक्तमेव, बुद्ध यादीनामेव प्रधानादिहेतुमत्त्वात्, नत्वेवमव्यक्तं कुतश्चित् यतोऽनित्यम्, अन्यतो हेतुमत्त्वासिद्धेरेतद्धेत्वभिधानमिति न पौनरुक्त यम्, तथा प्रधानपुरुषौ यथा विभुत्वेन व्याप्त्या वर्त्तते इति तौ व्यापिनौ नवं व्यक्तमिति तदव्यापि, यथा च संसारकाले बुद्ध हङ्कारेन्द्रियसंयुक्तं सूक्ष्मशरीराश्रितं व्यक्तं संसारि, नेवमव्यक्तं, तस्य विभुत्वेन सक्रियत्वायोगात्, बुद्धयहङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते, नाव्यक्तम्, तस्यैकस्यैव सतलोकच कारणत्वात्, आश्रितं च व्यक्तं यद् यत्रोत्पद्यते तस्य तदाश्रितः वात्, नत्वेवमव्यक्तं, अकार्यत्वात् तस्य, लयं गच्छतीति कृत्वा लिङ्ग च व्यक्त, तथाहि प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन् मात्राणीन्द्रियाणि चाहङ्कारे, सोऽपि बुद्धौ साऽपि प्रधाने, नत्वेवमव्यक्तं क्वचिद विलयं गच्छति, लीनं वाऽव्यक्तलक्षणमर्थं गमयतिकार्यत्वादिति लिङ्ग व्यक्तं, नत्वेवमव्यक्त, अकार्यत्वात् कार्योन्मुखरूपानुपलम्भेन तस्य कारणलिङ्गत्वाभावाच्च, सावयवं व्यक्त, शब्दस्पर्शरूपरसगन्धात्मकैरवयवैर्युक्तत्वात् नचैत्रमव्यक्तम्, तत्र शब्दादिव्यक्ती - नामनुपलब्धेः, तथा यथा पितरि जीवति पुत्रो न स्वतन्त्रः तथा