________________
( ४४ ) निद्रातु सर्वानाभावालम्बना, स्वप्ने करितुरगादिभावानामपि प्रतिभासनात्, नापि सर्वामिथ्यैव, संवादिस्वप्नस्यापिबहुशोदर्शनात् ॥१०॥ ___ स्मृतिरप्यनुभूते यथार्थतत्ताख्यधर्मावगाहिनी, संवादविसंवादाभ्यां वैविध्यदर्शनात् इति तिसृणामुत्तरवृत्तीनां द्वयोरेव यथायथ मन्तर्भावात् पञ्चवृत्त्यभिधानं स्वरुचितप्रपञ्चार्थम्, अन्यथा क्षयोपशमभेदादसङ्खयभेदानामपि सम्भवादित्याहत सिद्धान्त-परमार्थ विदः इति। ___ अभ्यास-वराग्याभ्यां तन्निरोधः ॥१२॥ तन्निरोध इति चित्तवृत्ति निरोध इत्यर्थः, तत्रस्थितौ यत्नोऽभ्यासः ।: १३॥ स्थिती मनसः एकस्मिन् विषयेऽवस्थाने, सतु दीर्घकालनैरन्तयंसत्कारासेवितोदृढभूमिः ॥१४॥ स तु अभ्यासः पुनः, दृष्टानुश्रविकविषयवितृष्णस्यवशीकारसंज्ञा वैराग्यम् ॥ १५ ॥ दृष्टः प्रत्यक्षादिलौकिकप्रमाणविषयः, कामिनीकाञ्चनादिः, आनुश्रविको वैदिकोयागादिः, अत्रोपाध्यायस्य परामर्शः
'विषयदोषजनितमापातधर्मसन्न यासलक्षणं प्रथममिति, प्रथम वशीकारसंज्ञात्मकं वैराग्यम् । तत्परं पुरुषख्याते गुणवैतृष्ण्यम् ॥१६॥
'स तत्त्वचिन्तया विषयौदासीन्येन जनितं द्वितीयापूर्वकरणभावितात्त्विकधर्मसन्न यासलक्षणं द्वितीयं वैराग्यम्, यत्र क्षायोपशमिका धर्मा अपि क्षीयन्ते क्षायिकाश्चोत्पद्यन्ते इत्यस्माकं सिद्धान्तः इत्युपाध्यायाः,
द्वितीयं गुणवैतृष्ण्यारूपम् । अस्माकं जनानाम्, वितर्कविचारा नन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥१७॥