________________
( २८ )
मुहुर्मुहुर्भावनं द्वादशभावनाः, सामायक-च्छेदोपस्थापनीय परिहारविशुद्धक सूक्ष्म संप राय-यथाख्यातंश्चरणाञ्चरित्रं पञ्चविधम् इत्येवं सप्तपञ्चाशत्संख्यकत्वं संवरप्रकृतीनां बोध्यम् । जीव-कर्मणोः परस्परं क्षीरनीरन्यायेनानुगमात् संयोगविशेषलक्षणस्सम्बन्धो बंधः, तत्र ज्ञानावरणीय दर्शनावरणीय वेदनीय मोहनीय-आयुः नाम गोत्र अन्तरायभेदेनाष्टविधानि कर्माणि मूलभेदतः, उत्तरप्रकृतिभेदतस्तु अष्टपञ्चाशदधिकशतं भेदान्यवगन्तव्यानि, सच बन्धः प्रकृतिस्थित्यनुभाग प्रदेश भेदाच्चतुर्धा,
'स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् ॥
अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः ॥ १ ॥ इत्यादिवचनात् तत्स्वरूपमवधार्यम् ।
बद्धस्य स्पृष्टबद्धनिधत्तनिका चितादिरूपेणाजितस्य कर्मणस्तपश्व रणध्यानजपादिभिः क्षपणं निर्जरा, सा सकामा कामभेदेन द्विविधा, अष्टविधकर्मणामात्यन्तिकों वियोगो मोक्षः, तदानों द्रव्यप्राणाभावेऽपि ज्ञानादिलक्षणभावप्राणलक्षणजीवनवत्वाज्जीवत्वं मुक्तस्य युज्यते, तदुक्तम्
"यस्मात् क्षायिकसम्यक्त्व - वीर्य सिद्धत्वदर्शनज्ञानैः ।
आत्यन्तिकैः सयुक्तो निर्द्वन्द्वेनापि च सुखेन ॥१॥
ज्ञानादयस्तु भावप्राणा मुक्तोपि जीवति स हि ।
तस्मात् तज्जीवत्वं नित्यं सर्वस्य जीवस्य ॥२॥ इति ।