________________
( २७ )
एक रसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ इति वचनादणोः स्कन्धतो वैलक्षण्यमवसेयम् । अणवोऽवद्धाः वद्वा एव स्कन्धाः सङ्गतभेदेभ्य उत्पद्यन्ते, भेदादेवाणुरुत्पद्यते, स्कन्धेषु चाक्षयाणां भेरसङ्घाताभ्यामुत्पत्तिरन्येषां सङ्घाताद् भेदात् सङ्घातभेदान्न, धर्मादीनाम् शेषाणामप्युत्पादव्यय घ्रौव्ययुक्तत्वं सत्त्वं त्रिसूत्रीवृत्तितोऽवसेयम्, स्निग्वरूक्षत्वाद् बन्धो भवति न जघन्यगुणानाम्, तथा गुणसाम्ये सदृशानां बन्धो न भवति, द्वयधिकादिगुणानां तु सदृशाशानामपि बन्ध, एवमन्योऽप्येतद् विषये विचार स्तस्वार्थतोऽवसेयः गुणपर्यायवत्त्वं द्रव्यस्य लक्षणम्, एकीयमते द्रव्यतयाऽभ्युपगतः फालोऽनन्तसमयः, तत्र वर्त्तमानसमयएकः, अतीतानागतयोस्त्वानन्त्यमिति, आयतेयेन गृह्यते कर्म स आश्रवः, शुभाशुभकर्मादानहेतु:, कायवाङ्मनः कर्मयोगः, तत्प्रकृतयश्च द्वाचत्वारिंशत्, पञ्चेन्द्रियाणि चत्वारः कषायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायियादय इति । आश्रवद्वारनिरोधः संवरः, संदर प्रकृतयस्तु सप्तपञ्चाशत्, तथाहि ईया भाषा- एषणा आदानपरिष्ठ पनिकाः पञ्चसमितयः सम्यग् व्यापारणाः, मनो-वचनकायानां तिस्रो गुप्तयः कुशलाकुशल व्यापाराव्यापाररूपाः, क्षुधापीपासा - शीत-उष्ण - डांस - अचेल - अरति- स्त्री-चर्या निषद्या - शय्याआक्रोश-बंध-याचना अलाभ - रोग - तुण-स्पर्श मल-सत्कार- प्रज्ञाअज्ञान सम्यक्त्व-विषयेऽधिशयनं परीषहा द्वाविंशतिः, क्षमा-मृदुताआर्जव त्याग तप-संयम सत्य - शौच-अकिञ्चनत्व-ब्रह्मचर्याणां पालनं दश यतिधर्माः, अनित्यत्व-अशरणत्व-संसार एकत्व अन्यत्व - अशुचित्व-आश्रव संवर निर्जरा- लोक स्वभाव-बोधिदुर्लभ धर्मभावनानां