________________
( २६ ) भाज्यः, लोकाकाशप्रदेशानामसङ्ख्यावभागादिषु प्रदेशसङ्कोचविकासाभ्यां जीवानामवगाहः गतिमतां गतेरपेक्षाकारणं धर्मः, स्थितिमतां स्थितेरपेक्षाकारणमधर्मः, अत एव लोकाकाश एव धर्माधर्मयोः सद्भावाद् गतिस्थितिमतां गतिस्थिती नालोके, अवगाहोपष्टम्भकत्वस्वाभावादाकाशत्वन्तस्यापि, अवगाहिनां धर्माधर्मजीवपुद्गलानामवगाहनिमित्तमाकाशः, औदारिक-वैक्रियाहारकर्तजसकार्मणाख्यपञ्चविधशरीरवाङ्मनःप्राणापानाः पुद्गलानामुपकारः, सुखदुःखजीवितमरणोपग्रहाश्च पुद्गलानामुपकारः, हिताहितोपदेशाभ्यां परस्परस्योपग्रहो जोवानामुपकारः, एकोयमतेन धर्मास्तिकायादिद्रव्यपञ्चकान्तभूतव्यतिरिक्तो वा कालोऽपि द्रव्य, तस्य वर्तना परिणामः क्रियापरत्वापरत्वे चोपकारः, उपकारो नाम प्रयोजनं तेन तत् कारणत्वं तल्लक्षणमवसेयम्, एतेषाममूर्तत्वम् । स्पर्शरसगन्धवर्णत्त्वं पुद्गलानां लक्षणम्, तत्र कठिन-मृदु-गुरु-लघु शीतोष्ण-स्निग्ध-रूक्षभेदात् स्पर्शोऽष्टविधः, तिक्त-कटु-कषायाम्लमधुरभेदेन रसः पञ्चप्रकारः, गन्धोद्विविधः सुरभिरसुरभिश्च, कृष्ण-नोल-लोहित-पीत-शुक्लभेदेन वर्णः पञ्चविधः, स्निग्धरूक्षशीतोष्णाश्चत्वार एव स्पर्शा अणुषु, स्कन्धेष्वष्टावपि यथासम्मत्त्वम्, लवणो मधुरान्तर्गतः संसर्गजो वा मतभेदेनासंसगजत्वाचित्रवर्णोऽपि नातिरिक्तः। एवं शब्द-बन्ध-सौक्षम्य-स्थौल्य-संस्थान भेद-तमश्छायातपोद्योतवन्तश्च पुद्गलाः। पुद्गलपरिणामानां शब्दादीनां प्रभेदादिकं तत्वार्थसूत्रवृत्तितोऽवसेयम् । अणु-स्कन्धभेदेन पुद्गलस्य द्वैविध्यम्, तत्राकारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।