________________
( २६ ) एवं सप्तविधं तत्त्वम्, केचन आचार्याः पुण्यपापेऽपि तत्त्वान्तरं स्वीकुर्वन्ति तन्मते नवविधं तत्त्वम् तत्र पुण्यं सत्कर्मपुद्गलम्, तत्प्रकृतयो द्विचत्वारिंशत्, तद्यथा'नरतिरिसुराउउच्च, सायं परघाय आयवुजो यं ।
तित्थुस्सासनिमेणं, पणिदिवयस्समव उरंसं, इति, . पुण्यप्रकृतिविसदृशं पापं, मिथ्यात्वादीनि तस्य कारणानि, तत् प्रकृतश्च द्वयशीतिः, तद्यथा" थावरदसचउजाई अपशमसंठाणखगइसंघयणा।
तिरिनरयदुगुवद्यायं वन्नचउनामचउतीसा ॥ नरयाउ नीय अस्सायद्यायपणयालसाहिव वासीइ" इति
पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्व यशोतिः । पुण्य-पापयोस्तत्त्वान्तरत्वमतेऽपि जीवाजीवपुण्यपापाश्रवसंवरबन्धनिर्जरामोक्षा नवतत्त्वानीत्येवं तत्त्वोपदेशात् मोक्षस्यैव परमपुरुषार्थत्वेनान्ते उपादानं साक्षात् परम्परया वा तत् प्रयोजकत्वेनान्यतत्त्वानां पूर्वमुपादानम्, सम्यग्दर्शन-ज्ञान-चारित्राणि तु मिलितानि तत् कारणमिति बोध्यम्, चत्वारो निक्षेपा इत्युक्तं तत् कथमित्याकाङ्क्षा निवृत्तये उच्यतेइदं वस्तु कतिविध-मितिपृष्टे तदुत्तरम् ॥
___नामादिभिस्तन्न्यसनं निक्षेपत्वेन कीतितम् ।। १६ ॥ एकैकमपिवस्तु घटपटादिकं प्रत्यक्षादि प्रमाणोपनतं कतिविधं कियत् प्रकारकमित्येवं परेण पृष्टे प्रश्नविषयीकृते सति, तदुत्तरं