________________
( २३ ) सामान्यरहितस्य विशेषस्य च खर विषाणकल्पत्वादुक्तं सापेक्षाभ्यामिति, समन्वितं तादात्म्येन युक्तम् सामान्यविशेषोभयास्मकमिति यावत्, तदुक्तं ।
'स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः ॥ परात्मतत्त्वादतथात्मतत्त्वाद्वयं वदन्तोऽकुशलाः स्खलन्ति ॥१॥' इति अत एव न केवलसामान्यात्मकं न केवलविशेषात्मकं, किन्तु सामान्यविशेषोभयात्मकत्वेन जात्यन्तरम् नरसिंहवत्, भागे सिंहो नरोभागे योऽसौ भागद्वयात्मकः ॥
तमभाग विभागेन नरसिंह प्रचक्षते ॥१॥ इति एवंविधं वस्तु तत्त्वमित्युच्यते, यच्च सत् तदेव तत्त्वं, उत्पादव्ययध्रौव्ययुक्तं च सदिति मनसिकृत्याह उत्पादव्ययध्रौव्ययुगिति उत्पादव्ययध्रौव्यात्मकमित्यर्थः, प्रतिक्षणं वस्तु उत्तरपर्यायरूपेणोत्पद्यते पूर्वपर्यायरूपेण विनश्यति पूर्वापरपर्यायानुगतद्रव्यरूपेणावतिष्ठते, यथा सौवर्णो घटो यदा सुवर्णकारव्यापारेणविनश्यति तदैवमुकुटाद्याकारणोत्पद्यते सुवर्णरूपेणावतिष्ठते तदानी घटार्थिनः शोको भवति, मुकुटार्थिनः प्रमोद उत्पद्यते, सुवर्णार्थिनश्च माध्यस्थ्यमेव तदेतदेकदाकार्यत्रयभावः कारणत्रयमन्तरेण न सम्भवतीत्येकस्यापेक्षाभेदेनोत्पादव्ययध्रौव्यात्मकत्वम् तदुक्तम्" घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥ इति, तत्त्वस्य सप्तविधरवं कथमित्याकाङक्षायामुच्यते ।