________________
( २४ )
जीवोऽजीव आश्रवश्च बन्ध-संवर- निर्जराः ॥ मोक्षस्तत्वं पुण्यपापे अपितत्त्वन्तु केचन ॥ १६ ॥
तत्र जीवः औपशमिक क्षायिक- मिश्रोदयिक-पारिणामिकभावान्वितः साकाराना कारोपयोगलक्षणोऽमूर्त्तस्वभावः, तत्र औपशमिकभावः सभ्यक्त्वचारित्रभेदेन द्विविधः, क्षायिकभावो ज्ञानदर्शन-दान लाभ- भोगोपभोगवीर्यं सम्यक्त्व चारित्रभेदेन नवविधः, मिश्रः क्षायोपशमिकः स मति श्रुतावधिमनः पर्यांयज्ञानात्मकचतुविवज्ञान-मत्यज्ञानश्रुताज्ञान- विभङ्गज्ञानेति त्रिविधिज्ञान चक्षुदंशनाचक्षुर्दशनावधिदर्शनस्वरूप त्रिविधदर्शन-दानलब्धि-लाभलब्धिभोग लब्धपभोगलब्धिवीर्य लब्ध्यात्मकपञ्चलब्धि-सम्यक्त्व चारित्र संयमासंयमभेदेनाष्टादशविधः, औदयिकभावो नारक-तंयंग्योनमानुषदेवभेद चतुविधगति क्रोध- मान-माया-लोभभेदचतुविधकषाय स्त्रीपुन्नपुंसकभेदत्रिविधलिङ्ग मिथ्यादर्शनाज्ञानासंयतासिद्धत्व कृष्णनील- कापोत- तेजः पद्म-शुक्ललेश्येतिभेदषड्विधलेश्येत्येकविंशतिविधः । पारिणामिको भावो जीवत्व भव्यत्वा भव्यत्वभेदेन त्रिविधः, साकारोपयोगो विशेषविषयकं ज्ञानम्, अनाकारोपयोगो दर्शनम्, स च जीवः संसारिमुक्तभेदेन द्विविधः, तत्र संसारिणा समनस्कामनस्कभेदेन द्वैविध्यम्, त्रस - स्थावरभेदेन च, द्रवभावोभयविधेन मनसा सहितः समनस्कः, द्रव्यमनो रहितोऽमनस्कः, पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायुद्वीन्द्रियादयस्त्रसाः, इन्द्रियाणि स्पर्शन-रसनघ्राण-चक्षुः श्रोत्राणि, स्पर्श-रस- गन्धवर्णशब्दास्तेषां विषयाः, द्वीन्द्रियादिजीवानां विस्तरतोधिगमस्तत्त्वार्थाधिगमसूत्रतो विधेयः,