________________
( २२ ) नयः स्वीकुरुते । यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्र: पूरणप्रवृत्तः पुरन्दर इति। क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः, यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः । एतेषु पूर्वः पूर्वोनयः प्रचुरगोचरः परः परस्तु परिमितविषयः, नयाभास रूपाण्यन्यदर्शनानीति नयाभासा उपशिताः, प्रमाणाभासास्त्वप्रमाणस्वरूपसन्निविष्टा एवेति न दशिताः, रत्नाकरावतारिकादितोऽवसेयाः, अनुमानाभासस्य हेतुवस्तु पक्षाभाससाधनाभासदृष्टान्ताभासा ग्रन्थगौरवभयानोपदर्शिताः, रत्नाकरावतारिकातोऽवसेयाः, सप्त तत्त्वानीति यदुक्तं प्रमाणनयाधिगम्यानि तत् परिभावनायोच्यतेस्यात् सामान्यविशेषाभ्यां सापेक्षाभ्यां समन्वितम् ॥
वस्तु जात्यन्तरंतत्त्वमुत्पादव्ययध्रौव्ययुग् ॥१४॥
अनुवृत्ति स्वभावं सामान्यम् अनुगताकारप्रतीतिविषयः, तच्चतिर्यक्सामान्योर्ध्वतासामान्यभेदेन द्विविधम्, तत्र प्रतिव्यक्तिसमानाकारपरिणामः तियक्सामान्यम्, यथा शबलशाबलेयादिपिण्डेषु गोत्वम्, पूर्वापरपर्यायानुगतं द्रव्यमुध्वंतासामान्यं, यथा कटककङ्कणाद्यनुगतं सुवर्णम् । व्यावृत्तस्वभावोविशिष्टाकारप्रतीतिविषयो विशेषः, सच गुणपर्यायभेदेन द्विविधः, तत्र सहभावी धर्मो गुणः, यथाऽऽत्मनि विज्ञानव्यक्तिशक्तिसुखपरिस्पन्दयौवनादयः, क्रमभावी धर्मः पर्यायः, यथाऽऽत्मनिसुखदुःखहर्षविषादादयः, ताभ्यां सामान्य विशेषाम्यामित्यर्थः, निविशेषस्य सामान्यस्य