________________
( २१ ) कदर्शनम् । प्राधान्येन विशेषमात्रावगाहिपरामर्शमात्रवृत्तिजातिमत्त्वं व्यवहारस्य लक्षणम्, प्राधान्येन सामान्यमात्रावगाहिनो नंगमस्य सङ्ग्रहे, प्राधान्येन विशेषमात्रावगाहिनस्तस्य व्यवहारे चान्तर्भावमुररोकृत्य नैगमनयो नातिरिक्त इति सिद्धसेनानुयायिनः, प्राधान्येन वर्तमानक्षणस्थायिपर्यायमात्राग्राही द्रव्ये गजनिमीलिकामवलम्बमानोऽभिप्रायविशेषा ऋजुसूत्रः, यथा सौगतदर्शनम् । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गभेदेन ध्वनेरर्थभेदमभिमानो द्रव्यरूपतयाऽभेदे तु गजनिमीलिकामवलम्बमानोऽभिप्रायविशेषः शब्दः स च साम्प्रतइत्याख्यायते, तत्र कालभेदे बभूव भवति भविष्यति सुमेर्वादिः, अत्र शब्दनयोऽतीतवर्तमानभविष्यलक्षणकालत्रयभेदात् सुमेरो भैद प्रतिपद्यते, कारकभेदे करोति क्रियते कुम्भ इति, लिङ्गभेदे तटस्तटीतटमिति, सङ्ख्याभेदे दाराः कलत्रमिति, पुरुषभेदे एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति, उपसर्गभेदे सन्तिषुते अवतिष्ठते इत्युदाहरणमवबोद्धव्यम् । कालादिभेदेन ध्वनेरथं भेदमेवाभिमानोऽभिप्रायः शब्दाभासः, उदाहरणं पूर्वोक्तमेवैकान्तभेदसर्थनपरम् । पर्यायशब्देषु निरुक्तिभेदेनार्थभेदमभिमानोऽर्थगतमभेदन्तूपेक्ष्यमाणोऽभिप्रायविशेषः समभिरूढः, यथा इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु । एकान्तार्थभेदाभिदानस्तेषान्तदाभासः, यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात्, करिकुरङ्गादिशब्दवत्, शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नभिप्रायविशेष एवम्भूतः, सर्वे शब्दाः क्रिया शब्दा एव, पञ्चतयो तु शब्दानां व्यवहारमात्राद् न निश्चयादित्ययं