________________
( २० ) नेगमः सङ्ग्रहश्चैव व्यवहारर्जु सूत्रकौ ॥
शब्दः समभिरूढचवंभूतौ मते त्रऽनयाः ॥१३॥ अत्र नैगमसङ्ग्रहव्यवहारा द्रव्याथिकाः, ऋजुसूत्र-शब्दसमभिरूढवंभूताः पर्यायाथिका इति द्रव्याथिकपर्यायाथिकभेदेन द्वैविध्यम् एवं ऋजुसूत्रान्ताश्चत्वारोऽर्थनयाः शब्दाद्यास्त्रयः शब्दनयाः, तत्र परसङ्ग्रहनेगमौ निश्चयः, अन्ये व्यावहारिक इत्येवं द्वविध्यं नयानां प्रतिपत्तव्यम्, तत्र धर्मयोमिणो धर्ममिणोश्व प्रधानोसर्जनभावेन यद्विवक्षणं सनैकगमो नैगम इति प्राधान्येन सामान्यविषयकबोध. वृत्तित्वे सति प्राध्यनेन विशेषविषयकबोधवृत्ति नयत्वव्याप्यजातिमत्त्वं नयत्वमिति बोध्यम्, धर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धि नँगमाभासः इति, तयोराकरत उदाहरणान्यवसेयानि । सामान्यमात्रग्राही परामर्शः संग्रहः, सपरोऽपरश्च, अशेषविशेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परामर्शः परसङ्ग्रहः । विश्वमेकं सदविशेषादितियथा । विशेषनिराकरणपरत्वे तु तदाभासत्वम्, द्रव्यत्वादीन्यवान्तरसामान्यानि मन्यमानस्तभेदेषु गजनिमोलिकामवलम्बमानः परामर्शोऽपरसंग्रहः । यथा धर्मादिद्रव्याणामक्यं द्रव्यत्वाभेदादित्यादिः, तद्विशेषापहवेतु तदाभासत्वम् । प्राधान्येन विशेषानवगाहिप्राधान्येन सामान्यावगाहिमात्रवृत्ति जातिमत्त्वं सङ्ग्रहस्य लक्षणम् । संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते सोऽभिप्रायविशेषो व्यवहारः, यथा यत् सत् तद् द्रव्यं पर्यायोवेत्यादिः, अपारमार्थिकद्रव्यपर्यायविभागाभ्युपगभिप्रायो व्यवहाराभासः, यथा चार्वा