________________
( १४ )
इति साधर्म्य दृष्टान्तः अग्न्यभावे न भवत्येव धूमो यथा महानसे इति वैधम्यं दृष्टान्तः हेतोः साधम्यधर्मिण्युपसंहरणमुपनयः, यथा धूम चात्र प्रदेशे, साध्यधर्मिणि साध्यधर्मस्योपसंहरणं निगमनम्, यथा तस्मादग्निरत्र । एते पञ्चाप्यवयवसंज्ञया प्रतीताः, पञ्चावय ववाकचं न्यायः, उपलब्ध्यनुपलब्धिभ्यां द्विप्रकारो हेतु:, तदुभयमपि विविनिषेधसिद्धिनिबन्धनम्, विधिनिषेधौ सदशासदंशौ, तत्रासदंशः प्रागभावप्रध्वंसाभावेतरेतराभावात्यन्ताभावभेदेन चतुर्धा, निवृत्तावेव यस्य समुत्पत्तिः स तस्य प्रागभावः, यथा मृत्पिण्डनिवृत्तावेवसमुत्पद्यमानस्य घटस्य मृत्पिण्डः, यदुत्पत्तौकार्यस्यावश्यं विपत्तिः सोऽस्य' प्रध्वंसाभावः, यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम्, स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभावः, यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः । कालत्रयापेक्षिणी हि तादात्म्यपरिणाम निवृत्तिरत्यन्ताभावः, यथा चेतनाचेतनयोः, अविरुद्धोपलब्धिविरुद्धोपलब्धिमेदेनोपलब्धिहेतो द्वैविध्यम्, तत्राविरुद्धोपलब्धि हेतोविधिसिद्धौ षड्विधत्वम्, विरुद्धोपलब्धि हेतोः प्रतिषेधप्रतिपत्तौ सप्तप्रकारत्वम्, अनुपलब्धि हेतोरप्यविरुद्धानुपलब्धिविरुद्धानुपलब्धिभ्यां द्विविधत्वं तत्राविरुद्धानुपलब्धेः प्रतिषेधावबोधे सप्तप्रकारत्वं, विरुद्धानुपलधेस्तु विधिप्रतीतो पञ्चप्रकारत्वं च प्रमाणनयतत्त्वालोकालङ्कारसूत्रतोऽवसेयम् । स्वज्ञातयथावस्थितार्थवक्तृलक्षणाप्तवचनाविर्भूतार्थसंवेदनमागमः, निरुक्ताप्तवचनन्तूपचारात् क्षीणदोषो ह्याप्तः स्वज्ञातयथावस्थितार्थमेव ब्रूते, तदुक्तम्