________________
( १५ ) 'आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः ॥ क्षीणदोषोऽनृतं वाकयौंन ब्रूयाद्धत्वसम्भवात् ॥१॥' इति लौकिकालौकिकभेदे. नाप्तस्य द्वैविध्यात् तद्वचनस्य द्वैविध्यम्, जनकादिौकिकोऽलोकिकस्तीर्थकरादिः, वर्णपदवाक्यात्मकं वचनम्, अकारादीनां पौद्गलिकानां वर्णानामन्योन्यापेक्षाणां निरपेक्षसंहतीनां पदानां निरपेक्षसहतिरूपस्य वाकयस्यानित्यत्वेन तत् समुदायरूपस्य वेदस्याप्यनित्यत्वमेव, तन्नित्यत्वप्रदर्शनपराण्यपौरुषेयत्वसमर्थकानि " वेदस्याध्ययनं सर्व गुर्वध्ययन पूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥१॥ अतीतानागतौ कालौ वेदकार विजितौ ।
कालत्वात् तद्यथा कालो वर्तमानः समीक्ष्यते ॥२॥ शब्दे दोषोद्भवस्तावद् कक्त्रधीन इति स्थितिः।
तदभावः क्वचित्तावद् गुणवद्वक्तृकत्वतः ॥३॥ तद् गुणैरपकृष्टानां शब्दे संक्रान्त्य सम्भवात् ।
वेदे तु गुणवान् वक्ता निर्णेतुं नैव शकयते ॥ ४ ॥ ततश्च दोषाभावोऽपि निर्णतुं शकयतां कथम् ।
वक्तभावे तु सुज्ञानो दोषाभावो विभाव्यते ॥५॥ यस्माद्वक्तरभावेन न स्यु र्दोषा निराश्रयाः।
इत्यादि भट्टवचनानि विस्तरतः शब्दानित्यत्वसाधकयुक्तिस्तोमाविर्भावानेन सम्मत्यादावपाकृतानि, स्वाभाविकार्थप्रतिपत्त्यनुकूलशक्तिसमयाभ्यामर्थबोधनिबन्धन शब्दः, अस्मात्पदादयमर्थो बोद्धव्य इत्येवं रूपादिदं पदममुमर्थ बोधयत्वियेवं रूपाद्वा