________________
( १३ ) हेतुः, नतु पक्षसत्त्व-सपक्षसत्त्व-विपक्षसत्त्वैतविलक्षणकः सौगतसम्मतः, नवा पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वाबाधितत्वासत्प्रतिपक्षत्वैतत् पश्चलक्षणो नैयायिकसम्मतः, स श्यामः तत् पुत्रत्वात् प्रेक्ष्यमाणैतत्पुत्रवदित्यत्र हेत्वाभासेऽपि तत् पुत्रत्वे निरुक्तत्रिलक्षणादे: सद्भावात्, अत्र पूर्वपक्षसमाधानप्रकारौ रत्नाकरावतारिकादितोऽवसेयौ । अप्रतीतमनिराकृतमभीप्सितं साध्यम्, तेन शङ्कितादेः प्रत्यक्षादिबाधितस्यानभिमतस्य च साध्यत्वव्यवच्छेदः, व्याप्तिग्रहणसमयापेक्षया धर्मः साध्यम्, प्रानुमानिकप्रतीत्यवसरापेक्षया पुनः पक्षापरपर्यायस्साध्यविशिष्टः प्रसिद्धो धर्मी साध्यम् । विकल्पतः प्रमाणतो विकल्पप्रमाणाभ्याश्च मिणः प्रसिद्धिः क्रमेण समस्ति समस्तवस्तुवेदी, क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमानित्यत्र ज्ञेया, पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्, तत्र पर्वतो वह्निमानिति पक्षवचनं परेण प्रतिज्ञेत्यभिधीयते, धूमादितिहेतुवचनम्, व्युत्पन्नमिति प्रतिवाद्यपेक्षयतज्ज्ञेयम्, व्युत्पन्नस्य प्रतिवादिनः कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे घूमवत्त्वस्योपपत्तेः असत्यनुपपत्तेर्वेति पक्षहेतुवचनाभ्यामेवायं प्रदेशोवह्निमानित्यनुमानस्योदयात्, तदप्यनुमानं हेतुग्रहणव्याप्तिस्मरण कारणकमेव, न दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, नोपनयनिगमनेऽपि तथा, पक्षहेतुप्रयोगादेव तस्याः सद्भावात्, बहिाप्तिग्रहणार्थस्य दृष्टान्तवचनस्यान्तापत्यवानुमानोपपत्तौ वैयर्थ्यमेवामन्दमतिप्रतिवादिव्युत्पादनार्थन्तु दृष्टान्तोपनयनिगमनान्यपि प्रयोक्तव्यानि, प्रतिबन्धप्रतिपत्तेरास्पद दृष्टान्तः साधर्म्यवैधर्माभ्यां द्विधा, यत्र यत्र धूमस्तत्रतत्र वह्नि र्यथा महानस