________________
( १२ ) सामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम्,' इतिसूत्रलक्षितं प्रत्यभिज्ञानमवधार्यम्, तज्जातीय एवाय गोपिण्डः, गोस. दृशो गवयः, स एवायं जिनदत्त इत्यादिज्ञानं प्रत्यभिज्ञानम्, इदं च स्थैर्य प्रमाणम्, अत्रैव नैयायिकमीमांसकाद्यभिमतोपमानप्रमाणस्यान्तर्भावः, अस्मादयं विसदृशोऽस्मादय ह्रस्वोदीर्घ इत्यादिज्ञानमपि प्रत्यभिज्ञानमेवेति ।
" उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिदमस्मिन्सत्येव भवतीत्याद्याकाक्ष संवेदनमूहापरनामा तर्कः" इति सूत्रलक्षितं तर्कप्रमाणमवगन्तव्यम्, इदञ्च व्याप्तिग्राहकं कार्यकारणभावग्राहकं वाच्यवाचकभावग्राहकञ्च, सामान्यलक्षणप्रत्यासत्तेरनङ्गीकारात् तज्जन्यतयाऽभिमतं प्रत्यक्षमपि तर्कप्रमाणजन्यं तर्क एवेति ॥
यावान् कश्चिद्धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्न सत्यसो न भवत्येवेत्यादिज्ञानं तर्कः। आद्यमन्वयव्याप्तौ, द्वितीयं व्यतिरेकव्याप्तावुदाहरणम् । स्वार्थपरार्थभेदेनानुमानं द्विप्रकारम्, तत्र हेतुग्रहणसम्वन्धस्मरणहेतुकं साध्यविज्ञानं स्वार्थानुमानम् यथा पर्वतेधूमग्रहणं, यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवति तस्मिन्नसति न भवत्येवेत्यादितर्कात्मकव्याप्त्यनुभवजन्योक्त व्याप्तिस्मरणं तदुभयहेतुकं पर्वतो वह्निमानित्याकारकं पर्वत. रूपपक्षविशेष्यक वह्निरूपसाध्यप्रकारकं ज्ञानमनुमानम्, अन्यथा. नुपपत्तिश्चेदस्ति तत्र त्रयेण किम् ? ॥ नान्यथानुपत्तिश्चेदस्ति तत्र त्रयेण किम् ? ॥१॥ इति वचनात निश्चितान्यथानुपपत्त्यैकलक्षणो