________________
( ११ ) कवलाहारसर्वज्ञत्वयोरविरोधेन केवलिनः कवलाहारः सम्भवति केवलिनि कवलाहारापहारप्रवणा दिकपटा रत्नाकराद्युपदर्शितकवलाहारव्यवस्थापकयुक्तितः प्रामाणिकसभातो निष्काशनीयाः, एवञ्च पञ्चविधज्ञानमध्यादवध्यादिज्ञानत्रयं प्रत्यक्षप्रमाण एवान्त. भूतम्, मतिज्ञानन्तु किश्चित् सांव्यवहारिकप्रत्यक्षे, किश्चिच्चानुमादौ परोक्षे, श्रुतज्ञानं तु परोक्षप्रमाणमेवेति बोध्यम् ॥ ११ ॥
परोक्षप्रमाणं यद्यनुमानकस्वरूपं तदाप्युक्तिवैचित्र्यमानं न तु वैशेषिकसौगताभ्यां वैलक्षप्यम्, एवमनुमानागमोभयरूपत्वे अनुमानोपमानागमार्थापत्त्यादिभिदायामपि साङ्ख्यनैयायिकप्राभाकरादितो न विशेष इति उच्यते
स्मरणं प्रत्यभिज्ञानं तर्कोऽनुमानमागमः ॥
एवं पञ्चविधं जैनः परोक्षं मानमिष्यते ॥ १२ ॥
स्पष्टम्, तत्र संस्कारप्रबोधजन्यं ज्ञानं स्मरणम् तच्चानुभूतार्थविषयकं तदित्याकारम्, यथा तजिनविम्बमिति, यत्तु 'अव्याप्तेरधिकव्याप्ते रलक्षणमपूर्वग् ॥ यथार्थानुभवोमानमनपेक्षतयेष्यते॥ ॥ 'इत्येवमुदयनाचार्येणानधिगतार्थाधिगन्तृप्रमाणमिति मीमांसकलक्षणं धारावाहिकबुद्धावव्याप्त्या भ्रमेऽतिव्याप्त्या निरस्य यथार्थानुभवत्वं मानत्वमिति लक्षणमुररीकृत्य स्मरणस्य मानत्वमपाकृतम्, तन्न युक्तम्, व्याप्तिज्ञानापेक्ष्योत्पत्तिकस्याप्यनुमानस्य स्वविषयपरिच्छेदे स्वातन्त्र्यात् प्रमाणत्वस्य सम्भवेन यथार्थज्ञानत्वस्यैव प्रमाणलक्षणत्वौचित्यात् । 'अनुभवस्मृतिहेतुकं तियंगूर्वता