________________
(=)
अर्थापत्या सह तानि पञ्च प्राभाकराः अनुपलब्ध्या सह तानि षडिति भट्टवेदान्तिनौ, अन्ये च सम्भवैतिह्यादिकमप्यधिकमामनन्ति तत्र प्रमाणे द्वे इत्युक्तौ सामान्यतः प्रमाणस्य द्वित्वसङ्ख्याधिगतावपि वैशेषिकसौगताभ्यां सह वैलक्षण्यं नाधिगतं भवतीत्यत उच्यते "प्रत्यक्ष च परोक्षञ्चत्येवं मानं द्विधा मतम् ॥
11
सांव्यवहारिकं पारमार्थिकमेव माद्यञ्च ॥ ११ ॥ अक्षमिन्द्रियं प्रतिगतम् इन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः, तथाचेन्द्रियाधीनोत्पत्तिकत्वं प्रत्यक्षपदव्युत्पत्तिनिमित्तं तचमनसोऽनिन्द्रियत्वेन तज्जन्यप्रत्यक्षाव्यापकमिति स्पष्टत्वमेव प्रत्यक्षपद प्रवृत्ति निमित्तं तदेवच प्रत्यक्षस्य लक्षणम्, तच्च अनुमानाद्याधिक्येन विशेषप्रकाशम्, इन्द्रियसन्निकर्षजन्यज्ञानत्वन्तु प्रत्यक्षस्य लक्षणं न सम्भवति, अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितस्यैव लक्ष्यतावच्छेदकसमनियतधर्मस्य लक्ष्ये तदितरभेदानुमापकतया लक्षणत्वस्यान्यत्र व्यवस्थापितत्त्वेनाप्राप्यकारि चक्षुमनोजन्य प्रत्यक्षागतत्वेनाव्याप्तिदोषाघातत्वात्, यथा च चक्षुर्मनसोरप्राप्यकारित्वं तथोपपादितं रत्नाकरावतारिकादो, लक्ष्यैकदेशावृत्तित्वमव्याप्तिः, अलक्ष्यवृत्तित्वमतिव्याप्तिः, लक्ष्यमात्रावृत्तित्वमसम्भव इत्येवमव्याप्त्यादीनां लक्षणमवसेयम्, अक्षाणां परमक्षव्यापार निरपेक्षं मनो व्यापारेणासाक्षादर्थपरिच्छेदकं परोक्षम् - अनन्तराभिहितस्पष्टत्वशून्यं प्रमाणं परोक्षमिति यावत्, स्पष्टत्वाऽस्पष्टत्वे विषयताविशेषे अन्यत्र निर्णीते । चकारद्वयेन द्वयोस्तुल्यकक्षत्वा वेदनेनान्याभिमतप्रत्यक्षप्रमाणज्येष्ठताऽपाकृता, प्रामाण्यं प्रति द्वयोरपि विशेषाभावात्, इत्येवम् = एवं प्रकारेण, मानं