________________
प्रमाणमिति सुखावबोधम्, एवञ्च प्रमेयाव्यभिचारिज्ञानं प्रमाणं, प्रमेयव्यभि चारिज्ञानमप्रमाणमिति, सर्वज्ञानं स्वप्रकाशं स्वस्वरूपेऽव्यभिचारित्वात्प्रमाणमेव, तेन संशयादिकमपि स्वस्वरूपांशे प्रमाणमेव, अर्थ एव तु व्यभिचरितत्वादप्रमाणमिति बोध्यम् ।
प्रामाण्यमुत्पत्तौ ज्ञप्तौ च ज्ञानानां स्वत एव, अप्रमाण्यन्तु परत एवौत्पत्तौ चेति मीमांसककदाग्रहव्यपोहायाह उत्पत्ताविति तस्य ज्ञानस्य, तत्त्वं प्रामाण्यम्, उत्पत्तौ परतः सर्वं वाक्यं सावधारणमिति उत्पत्तौ परत एव, प्रामाण्यश्चाप्रामाण्यस्याप्युपलक्षक, तेन ज्ञानस्य प्रामाण्यमप्रामाण्यं च ज्ञानकारणगतगुणदोषरूपं ज्ञानसामान्यकारणभिन्नकारणमपेक्ष्योत्पद्यत इत्युत्पत्तौ परतस्तस्य तत्त्वमिति सूक्तम्, ज्ञप्तौ स्वतोऽपितत् प्रामाण्यमुपलक्षणादप्रामाण्यञ्च, ज्ञप्तौ स्वनिश्चये, स्वतोऽपीत्यपिना परत इत्यस्यानेडनम्, तेन प्रामाण्यमप्रामाण्यश्च स्वतोऽभ्यासदशायां निश्चीयेते, अनभ्यासदशायां पुनः परतो निश्चीयेते, तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारि, तदितरच्चास्मीति प्राम ण्याप्रामाण्यनिश्चयः संवादक-बाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते, अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽप्तौ परतो भवतीत्यभिधीयते इति, अत्र मीमांसकमतस्योपदर्शनपुरस्सरं खण्डनं रत्नाकरावतारिकादितोऽवसेयम् ॥ १० ॥
चार्वाकः प्रत्यक्षमेवैकं प्रमाणं, सौगतवशेषिको प्रत्यक्षानुमाने द्व प्रमाणे, साङ्घयः प्रत्यक्षानुमानागमाख्यानि त्रीणि प्रमाणानीति, नैयायिकाः प्रत्यक्षानुमानोपमानागमसंज्ञकानि चत्वारि प्रमाणानि,