________________
( 8 ) द्विधा द्विप्रकारम्, मतम, जैनाचार्य रिष्टम्, न तु प्रत्यक्षानुमानभेदेनेति वैशेषिक बौद्ध मतलक्षण्यं निर्वहति । तत्र आद्यं प्रत्यक्षम्, संव्यवहारो बाधारहितप्रवृत्तिनिवृत्तीप्रयोजनमस्येति सांव्यवहारिक, बाह्येन्द्रियादितापेक्षत्वादपारमाथिकमस्मदादिप्रत्यक्षम्, परमार्थभवं पारमाथिकं मुख्यम्, आत्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षस्, एवममुना प्रकारेण, चकाराद्विधामतमित्यन्वेति, न तु लौकिकसनिकर्षजन्यभेदेन तद् द्विविधम्, सामान्यलक्षणाद्यलौकिकसन्निकर्षजन्यत्वेनाभिमतज्ञानस्येहाख्यप्रमाणव्यापारप्रभवत्वेन परोक्षतर्कस्वरूपतयैव जैनैरभ्युपगमात्, चाक्षुषमानसप्रत्यक्षयोः सन्निकर्षजन्यत्वस्यैवानभ्युपगमादिति, सांव्यवहारिकप्रत्यक्षमपीन्द्रियनिबन्धनानिन्द्रियनिबन्धनभेदेन द्विविधम्, चक्षुः स्पर्शनरसनब्राणश्रोत्राणि पञ्चेन्द्रियाणि, तान्युपकरणेन्द्रिय-निवृत्तीन्द्रियभेदेन द्विविधानि द्रव्येन्द्रियशब्दव्यपदेश्यानि, उपयोगेन्द्रियं भावेन्द्रियम्, प्रकृते द्रव्येन्द्रियमेवेन्द्रियशब्देन गृह्यते, अनिन्द्रियं मनः, मनस इन्द्रियजन्यज्ञाने व्यापारेऽपीन्द्रियाणामसाधारणत्वात् तेन तद् व्यपदेशः, एतद् द्वयमप्यवग्रहेहापायधारणाभेदात् प्रत्येकं चतुर्भेदम् । तत्र व्यञ्जनावग्रहार्थावग्रहभेदेनावग्रहस्य द्वैविध्यम्, ईहादयोऽर्थस्यैव न व्यञ्जनस्येति ।
विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः, अवगृहोतार्थविशेषाकाङक्षणमोहा, ईहितविशेषनिर्णयोऽपायः, स एव दृढतमावस्थापन्नो धारणा, इति प्रमाणनयतत्त्वालङ्कारसूत्रचतुष्ट