________________
( १२४ ) सञ्चिः कर्मसंशयविपर्ययादीनामपि बाधितत्वादखिलसम्बाधरहितो व्युत्थानसमये मांसशोणितमूत्रपुरीषाविभाजनेन शरो रेणाध्यादिभाजनेनेन्द्रियेणाशनोया पिपासाशोकमोहभाजनेनान्तः करणेन पूर्वपूर्ववासनया क्रियमाणानि भुञ्जानोऽपि च ज्ञानाविरुद्धारब्ध फलानि पश्यन्नपि न पश्यन्तीन्द्रजालवत् ‘स चक्षुरचक्षुरिवस. कर्णोऽकर्णः' इत्यादिश्रुतेः ईदृशश्च ब्रह्मणो जीव मुक्त इत्युच्यते, अस्य ज्ञानात् पूर्व विद्यमानानामाहारविहारादीनामनुवृत्तिवच्छुभवासनानामेवानुवृत्ति भवति, शुभाशुभयोरौदास्यं वा, तदुक्तं"वुद्धाद्वैतसतत्त्वस्य, यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैत्रकोभेदोऽशुचिभक्षण ॥१॥" इति, तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टुत्वादयः सद्गुणाश्वासकालरवदनुवर्तन्ते, तदुक्तं" उत्पन्ना मावबोधस्य अद्वेष्टुत्वादयो गुणाः ।
__ अशेषतो भवन्त्यस्य नतुसाचनरूपिणः ॥१॥" इति, किंबहुना अयं देहमात्रामात्रार्थी सुखदुःखलक्षणान्यारब्धफला. न्यनुभवन्नन्तः करणाभासादीनामवभासकः संस्तदवसाने प्रत्यगा. नन्दपरब्रह्मणि प्राणेलोनेऽज्ञानतत्कार्यसंस्काराणामपि विनाशात परं कैवल्यमानन्देकरसमखिलभेदप्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते, "न तस्य प्राणा उत्क्रामनि अतत्रैव समवलीयन्ते विमुक्तञ्च विमुच्यते' इति श्रुतेरिति। एतन् मते त्रिविधं सत्त्वं पारमाथिक व्यावहारिक, प्रातीतिकञ्च, आद्यं ब्रह्मणस्त्रिकालाबाध्यत्वात्, द्वितीयं मूलाविद्या तत् कार्याणां, तृतीयं शुक्तयज्ञानादिकार्याणां