________________
( १२५ ) शुक्ति रजतादीनां प्रमाणानि च प्रत्यक्षानुमानोपमानागमार्थापत्यनुपलब्ध्याख्यानि, प्रामाण्यं चतेषां स्वतोग्राह्यमप्रामाण्यश्च परतः, वेदश्चापौरुषेयः, अनिर्वचनीयतावादो दृष्टिसृष्टिवादादयो बहुभेदा अन्यत्रोपदशिता इत्युत्तरमीमांसा संक्षेपः ॥ श्रीमल्लावण्यसूरीणां प्रशिष्येण सुधोमता ॥
__ सुशोलेन सुशीलेन मीमांसाद्वयमीरितम् ॥१॥ सुशीलसूरिणा नाम्ना, षट्दर्शनस्य वर्णने ।
मिमांसादर्शनं प्रोक्त-मिमं संक्षेपतोऽत्र हि ॥२॥
॥ इति पूर्वोत्तरमीमांसादर्शनम् ॥
卐