________________
( १२३ ) कारिताया वृत्ते रतितरामेकोभावेनावस्थानम्, तदा जलाकारा कारित लवणानवभासे जलमात्रावभासवद द्वितीयवस्त्वाकाराकारितचित्तवृत्त्य नवभासेऽद्वितीयवस्तुमात्रमवभासते, ततश्वास्य सुषुप्तेन भेदः, उभयत्र वृत्त्यभाने समानेऽपि तद् वृत्ति सद्भावासद्भावमात्रेण तयो |दोपपत्तेः, अस्याङ्गानि " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः" तत्र “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः" 'शौच-सन्तोष-तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ।' पद्मकस्वस्तिकादीन्यासनानि, रेचक-कुम्भकपूरकाः प्राणायामाः, इन्द्रियाणां स्वविषयेभ्यो निवर्तनं प्रत्याहारः, अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा । तत्रैव विच्छिद्यविच्छिद्यान्तन्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् । समाधिस्तु सविकल्प एव । अस्य निविकल्पस्याङ्गिनो लय-विक्षेप-कषाय-रसास्वादलक्षणाश्चस्वारो विघ्ना भवन्ति, लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्ते निद्रा, तदवलम्बनेन चित्तवृत्त रन्यावलम्बनं विक्षेपः, लयविक्षेपाभावेऽपि चित्तवृत्तं रागादिवासनया स्तब्धीभावादखण्डवस्त्वलम्बन कषायः, समाध्यारम्भसमये व्युत्थाने वासविकल्पकानन्दास्वादनं रसास्वादः । एतद्विघ्नचतुष्टयरहितं चित्तं निर्वातदोपवदचलं सदखण्डचैतन्यमानं यदाऽवतिष्ठते तदा निर्विघ्नसमाधिरित्युच्यते, तदुक्तं-"लये संबोधयेच्चित्तं विक्षेपं समयेत् पुनः । सकषायं विजा. नीयात् समाध्याप्तं न चालयेत् ॥१॥ नास्वादयेद्रसं तत्र निःसंज्ञप्रज्ञया भवेत् ॥” इति, " यथा दीपो निवातस्थोनेङ्गतेसोपमास्मृता" इति च, उक्तस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा तत् कार्य