________________
( १२२ )
""
प्रतिपादनम् " । प्रकरणप्रतिपाद्यस्य तन्मध्ये पौनः पुन्येन प्रतिपादनमभ्यासः, यथा तत्रैव "अद्वितीयवस्तुनस्तत्त्वमसीति नवकृत्वः प्रतिपादनम्' प्रकरणप्रतिपाद्यस्य प्रमाणान्तराविषयीकरणम् । फलन्तु प्रकरणप्रतिपाद्यार्थज्ञानस्य तदनुष्ठानस्य वा तत्र श्रूयमाणं प्रयोजनम्, यथा तत्र “ आचार्यवान् पुरुषोवेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ च सम्पत्स्ये" इति अद्वितीयवस्तु ज्ञानस्य तत् प्राप्तिः प्रयोजनं श्रूयते । प्रकरणप्रतिपाद्यस्य प्रशंसनमर्थवादः, यथा तत्र " येनाश्रुतं श्रुतं भवति, अमतं मतं, अविज्ञातं विज्ञातम् " इत्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रतिपाद्यार्थसाधने तत्र श्रूयमाना युक्तिरुपपत्तिः, यथा तत्र " यथा सौम्य एकेन मृत्पिण्डेन सर्वं मृनमयं विज्ञातं स्यात् वाचारम्भवणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वं युक्तिः श्रूयते ॥ मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् ॥ विजातीयदेहादिप्रत्ययतिरस्कारेणाद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् । समाधिद्विविधः सविकल्पको निर्विकल्पकश्च, आद्यो ज्ञातृज्ञानादिविकल्पलयानपेक्षताऽद्वितीये वस्तुनि तदाकारकारिताया वृत्तेरवस्थानं, मृन्मयगजादिभानेऽपि मृज्ज्ञानवद द्वैतभावेऽप्यद्वेतवस्तुभानाभ्युपगमः, तदुक्तमभिनीये
7
"दृशि स्वरूपं गगनोपमं वरं यत् तद् विभातं त्वजमेकमक्षरम् ॥ अलेपकं सर्वगतं यदद्वयं तदेव चाहं सतत विमुक्तः ॥ १॥ | " इति । अन्यस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाऽद्वितीयवस्तुनि तदाकारा