________________
( १२१ )
स्वगतचिदाभासेन जडं घटादिकमपि भासयति, दीपप्रभामण्डलमिव तमःस्थं घटादिकं विषयीकृत्य तद्गतमोनिरस पूर्वं स्वप्रभयाघटाकिमित्यस्ति विशेषः, एतदखण्डचिदेकाकारवृत्तेः शमादिगुणानांचाभ्यासादेवस्वरूपविश्रान्तिर्भवति, न तु सकृज्ज्ञानमात्रात् । तदुक्तं वसिष्ठेन " न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ । एकोऽपिनैतयोस्तावत् पुरुषस्येह सिध्यति ॥ १ ॥” इति यावद्यावदन्तर्मुखः सन्नात्मतत्त्वं पश्यति तावत् तावच्छमादिमान् न भवति 'यावद्यावदन्तर्मुखः सन् शमादिमान् भवति तावत् तावदात्मतत्वमीक्षते' इत्यनुभवसिद्धत्वानिविकल्पचिदेदाकाकारान्तः करणवृत्त्यावृत्तिलक्षणज्ञानाभ्यासेन सहैव सत्पुरुषक्रमसंज्ञितं शमाद्युपेतात्मविचार मावर्त्तयेदित्येतदर्थः, शमादयः- “शम-दमोपरति- तितिक्षा-समाधानश्रद्धाः ' तत्र शमः श्रवणादिव्यतिरिक्तविषयेभ्यो मनोविनिग्रहः, दम बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । उपरति विहितानां कर्मणां समाधिव्याक्षेपकत्वे विधिना परित्यागः । तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् । गुरुवेदादिवाकयेषु विश्वासः श्रद्धा । श्रवण-मनन-निदिध्यासन समाध्यनुष्ठानानि आत्मविचारः, श्रवणं नाम षड्भिलिङ्गरशेषवेदान्तानाम द्वितीयवस्तुनि तात्पर्यावधारणम्, लिङ्गानि तु उपक्रमोपसहाराभ्यासापूर्व ताफलार्थं वादोपपत्याख्यानि, प्रकरणप्रतिपाद्यस्य तदाद्यन्तयो रूपादनमुपक्रमोपसंहारौ यथा छान्दोग्ये षष्ठे प्रकरणे "प्रतिपाद्यस्याद्वितीयवस्तुन एकमेवाद्वितीयमित्यादावेतदात्म्यमित्यन्ते च