________________
( १२० )
देवदत्त इति वाकयं तदर्थोवा तत् कालैतत्काल विशिष्टदेवदत्तलक्षणस्य वाकर्चार्थस्यांशे विरोधाद विरुद्धतत्कालै तत्कालविशि
शं परित्यज्याविरुद्ध देवदत्तांशमात्रे लक्षयति, तथा तत्त्वमसीति वाकचं तदर्थो वा परोक्षत्वापरोक्षत्वविशिष्ट चैतन्यैकयलक्षणस्य वाकयार्थस्यांशे विरुद्धत्वाद्विरुद्धं परोक्षत्वापरोक्षत्वांशं परित्यज्याविरुद्धं चिदंशमात्रं लक्षयतीत्यभ्युपेयम्, एवं तत्त्वमसीति वाकयार्थे बोधितेऽहं ब्रह्मास्मीति वाकयादधिकारिणोऽहं नित्यशुद्धबुद्धमुक्त सत्यस्वभावपरमानन्दाद्वयं ब्रह्मास्मीत्यत्यखण्डाकाराकारिता चित्तवृत्तिसदेति, सातुचित् प्रतिबिम्बसहिता सतीप्रत्यगभिन्नमज्ञातं परब्रह्मविषयीकृत्यतद्गताज्ञानमेव बाधते, तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते तत् कार्यस्याखिलस्य बाधितत्वात् तदन्तर्भूताऽखण्डाकारकारिता चित्तवृत्तिरपि बाधिता भवति, तत् प्रतिबिम्बितं चतन्यमप्यादित्यप्रभया तदवभासनासमर्थदीपप्रभावत् स्वयं प्रकाशमानप्रत्यगभिन्न परब्रह्मावभासनानर्हतया तेनाभिभूतं सत् स्वोपाधिभूताखण्डवृत्ते र्बाधितत्वाद्दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत् प्रत्यगभिन्नं परब्रह्ममात्रं भवति, एवं सति " मनसैवानुद्रष्टव्यं " यन्मनसानमनुते' इत्यनयोरविरोधः, वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेधात्, तदुक्तम्"फलव्याप्यत्वमेवास्य शाखकृदभिनिवारितम् ॥ ब्रह्मण्यज्ञान नाशायवृत्तिव्याप्तिरपेक्षिता ॥१॥” इति, “स्वयं प्रकाशमानत्वान्नाभास उपयुज्यते" इति च घटाटिजडपदार्थाकाराकारितचित्तवृत्तिस्तदज्ञातघटादिविषयीकरणेन तदज्ञाननिरसन पुरस्सरं