________________
( ११२ ) तदित्थं कर्मप्रधानत्वं पूर्वमीमांसाया उपदशितम्, अत्र प्राभाकराः प्रत्यक्षानुमानोपमानागमार्थापत्तयः पञ्च प्रमाणानि मन्यन्ते, भाट्टाः पुनरनुपलब्धिरप्यधिक प्रमाणामिति षट प्रमाणानि स्वीकुर्वन्ति, सर्वज्ञं न कञ्चनमुरीकुर्वन्ति । सर्वज्ञो दृश्यते तावन् नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्तिलिङ्ग योवाऽनुमापयेत् ॥१॥ इत्यादिपद्यसन्दर्भेण भट्ट न सर्वज्ञखण्डनमाविष्कृतमिति प्रभाकरमते भ्रमात्मकं ज्ञानं नास्ति शुक्तिरजतयोस्तत्प्रत्यक्षस्मरणयो)दाख्यातिरेव, ज्ञानं च स्वप्रकाशं प्रामाण्य च स्वाश्रयेणैव गृह्यत इति स्वतो ग्राह्यम् पदानामितरान्वितजातावेवशक्तिः तत्रान्वये कुब्जशक्तिः, द्वारमित्यादौ न पिधेहीत्यादिपदाध्यारः किन्वर्थाध्याहारादेवान्वयबोधः, कारकं च सर्वं क्रिययवान्वेति, नीलं घटमा नयेत्यादौ नीलकर्मकत्वादे रानयनादिक्रियया सहैव पूर्वमन्वयबोधः, नीलघटाभेदान्वयबोधस्तु पाष्टिकः, नित्यकर्मणां पण्डापूर्वमेव फलम्, द्रव्यगुणकर्मसामान्यसंख्यासमवायसादृश्यशक्तयोऽष्टौ पदार्थाः, अभावस्तु पदार्थान्तरं न भवति, किन्तु तत् तदधिकरणज्ञानमेव, तदुक्तं "दृष्टस्तावदयं घटोऽत्र निपतन दृष्टस्तथा मुद्गरो, दृष्टा कर्परसंहतिः परमितोऽभावो न दृष्टोऽपरः । तेनाभाव इति श्रुतिः क्वनिहिता किंवाऽत्र तत् कारणं, स्वाधीनाकलशस्य केवलमियं दृष्टा कपालावली ॥१॥" इति अन्यत्रापि
"गुरुधियमभावस्य स्थाने स्थानेऽभिषिक्तवान् । प्रसिद्ध एव लोकेऽस्मिन् बुद्ध बन्धुः प्रभाकरः ॥१॥” इति प्रभाकरस्योपहासः कृतः, अन्विताभिधानवादश्चेति ।