________________
( ११३ ) भट्टमते ज्ञानमतीन्द्रियं, ज्ञानजन्यज्ञातता प्रत्यक्षा, तल्लिङ्गकानुमानं यथा ज्ञानस्य ग्राहक तथा तद्गतप्रामाण्यस्यापीति प्रामाण्यं स्वतो ग्राह्य, जातावेवशक्तिः व्यक्तयस्त्वाक्षेपलभ्याः, यत्र च नैकमपि पदं तत्राप्यन्वयबोधः, पदार्थां एवान्वयबोधञ्जनयन्ति, अत एव 'पश्यतः श्वेतमारूपं हेषाशब्दञ्च शृणवतः। खुरविक्षेपशब्द च श्वेतोऽश्वो धावतीति धीः ॥१॥' इति, पदाध्याहार एवाभिमतः, तेन द्वारभित्यादौ पिधेहीत्यादिक्रियापदाध्याहार आवश्यकः, अभिहिताः पदार्था अन्वयबोधञ्जनयन्तीत्यभिहितान्वयवादः, द्रव्यगुणकर्मसामान्यरूपाश्चत्वारः पदार्थाः, अभावस्त्वधिकरणस्वरूपएवेति, मुरारिमिश्र मतेऽनुव्यवसाये न ज्ञानं तद् गत प्रामाण्यञ्च गृह्यत इति प्रामाग्यं स्वतोग्राह्यमिति पूर्वमीमांसामतसंक्षेपः । अथोत्तरमीमांसा एतन्मते सच्चिदानन्दाद्वयं ब्रह्मैव परमार्थसन, अज्ञानमविद्यामायादिशब्दवाच्यं सदसद्भ्यामनिर्वचनीयं सत्त्वरजस्तमोगुणात्मकं ज्ञानविरोधिभावात्मकं ब्रह्मविषयकं च, समष्टिरूपं व्यष्टिरूपं च, अजामेकामित्यादिश्रुतेः समष्टि रूपमेकं, सत्त्वप्रधानसमष्टिरूपाविद्योपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वादिगुणकं, अन्तर्यामिजगत्कारणमीश्वर इति च व्यपदिश्यते, अस्येवं समष्टिः सकलकारणत्वात् कारणशरीरं आनन्दमय कोशः सुषुक्तिरिति, व्यष्टिरूपञ्च तदनेकं, इन्द्रोमायाभिः पुरुरूपईयते इत्यादि श्रुतेः, व्यष्टिरूपाचाविद्यामलिनसत्त्वप्रधाना, तदुपहितं चैतन्य मल्पज्ञत्वानीश्वरत्वादिगुणकमज्ञ इत्युच्यते, प्राज्ञोऽयं, अस्येयमहङ्कारादिकारणत्वात् कारणशरीरमानन्दमयकोशः सुषुप्तिः स्थूलसूक्ष्मशरीरलयस्थानञ्च । अनयो यष्टि समष्टयो वनवृक्षयोरिवाभेदः,