________________
( १११ )
विधेयार्थ परिच्छेदः क्रियेत । पुरुषस्य निवर्त्तकं वाक्य निषेधः, निषेधवाकयानामनर्थ हेतु क्रियानिवत्तं कत्वेनैवार्थवत्त्वात् । प्राशस्त्यनिन्दान्यतर परं वाकयमर्थवादः, तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम्, तथाहि अर्थवादवाकयं हि स्वार्थप्रतिपादने प्रयोजनाभावाद्विधेयनिषेध्ययोः प्राशस्त्य निन्दितत्वे लक्षणया प्रतिपादयति, स्वार्थमात्रपरत्वे आनर्थकयप्रसङ्गात्, आम्ना यस्य हिक्रियार्थत्वात् न चेष्टापत्तिः, स्वाध्यायोऽध्येतव्य इत्यध्ययन विधिना सकलवेदाध्ययनं कर्त्तव्यमिति बोधयता सर्ववेदस्य प्रयोजनवदर्थपर्यवसायित्वं सूचयतो पात्तत्वेनानर्थकयानुपपत्तेः, स द्विविधो विधिशेषो निषेधशेषश्चेति त वायव्यं श्वतमालभेत भूतिकाम इत्यादिविधिशेषस्य वायुर्वैक्षेपिष्ठादेवतेत्यादे विधेयार्थ प्राशस्त्यबोधकतयाऽर्थवत्त्वम्, बर्हिषि रजतं न देयमित्यादिनिषेधशेषस्य सोरोदीद्यदरोदीत्तद्रस्य रुद्रत्वमित्यादेनिषेधस्य निन्दितत्वबोधकतयाऽर्थवत्वम्, स पुनस्त्रिधा, तदुक्तम्
''विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादखिधामतः ॥ १ ॥ इति ।
अस्यार्थः प्रमाणान्तरविरोधे सत्यर्थवादो गुणवादः, यथाssfaस्यो यूप इत्यादि, यूपे आदित्याभेदस्य प्रत्यक्षबाधितत्वादादित्यवदुज्जवलत्वरूपगुणोऽनेन लक्षणया प्रतिपाद्यते, प्रमाणान्तरावगतार्थबोधकोऽनुवाद:, यथाऽग्निहिमस्य भेषजमित्यत्र हिमविरोधित्वस्याग्नौ प्रत्यक्षावगतत्वात्, प्रमाणान्तरविरोधतत् प्राप्तिरहितार्थबोधको वादो भूतार्थवादः, यथेन्द्रो वृत्राय वज्रमुदयच्छदित्यादि ।