________________
( ११० ) कर्माणि प्रधानकर्माणि च, एतान्नयेव सन्निपत्योपकारकाणि आरा. दुपकारकाणि चोच्यन्ते, कर्माङ्गद्रव्याधुद्देशेन विधीयमानं कर्म सन्निपत्योपकारकम्, यथाऽवघातप्रोक्षणादि । द्रव्याद्यनुद्दिश्य केवलं विधीयमानमारादुपकारकं, यथा प्रयाजादि, आरादुपकारकं च परमापूर्वोत्पत्तावेवोपयुज्यते, सन्निपत्योपकारकं तु द्रव्यदेवतासंस्कारद्वारायागस्वरूपेऽप्युपयुज्यते । प्रयोगत्राशुभावबोधको विधि: प्रयोगविधिः, सचाङ्गवाकयंकवाक्यतापन्नः प्रधानविधिरेव, सहि साङ्गं प्रधानमनुष्ठापयन् विलाबे प्रमाणाभावादविलम्बापरपर्याय प्रयोगप्राशुभावं विधत्ते, प्रयोगविधिरेव स्वविधेयप्रयोगभावसिध्यर्थं नियतक्रममपि पदार्थविशेषणतया विधत्ते, तत्र क्रमोनामविततिविशेषः, पौर्वापर्यरूपो वा, तत्र षट् प्रमाणानि । श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यानि विस्तरेणान्यत्रोपर्वाणतानि। कमजन्यफलस्वाम्यबोधको विधि रधिकारविधिः, स च यजेत स्वर्गकाम इत्यादिरूपः। प्रयोगसमवेतार्थस्मारकामन्त्राः, तेषां च तादृशार्थस्मारकत्वेनैवार्थवदत्त्वं, न तु तदुच्चारणमदृष्टार्थ सम्भवति दृष्टफलकत्वे अदृष्ट फलकल्पनाया अन्याय्यत्वात् । न चैव सति नैयर्थ्यम्, मन्त्रैरेव स्मर्त्तव्यमिति नियम विध्याश्रयणात्, नानासाधनसाध्य क्रियायामेकाधनप्राप्तावप्राप्तस्यापर साधनस्य प्रापको विधिनियमविधिः, तदुक्तत्'विधिरत्यन्तमप्राप्तौ, नियमः पाक्षिके सति ।
तत्र चान्यत्र प्राप्तौ, परिसङ्घयेति गीयते ॥१॥ इति । नामधेयानां च विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम् यूथा उद्भिदा यजेत पशुकाम इत्यत्रोदभिच्छश्ब्दो नामधेयम्, तेन च