________________
( १०६ ) प्रकरणं क्रियाया एव साक्षाद् विनियोजक, द्रव्य गुणयोस्तु तद् द्वारा, इदञ्च स्थानादिभ्यो बलवत्, अत एवाक्षदिव्यति राजन्यमिति देवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि स्थानान्नतदङ्ग, किन्तु प्रकरणाद्राजसूयामिति, देश सामान्यं स्थानम्, तद्विविधं पाठसादेशमनुष्ठानसादेश्यं चेति, स्थानं क्रमश्चेत्यनन्तरम् । पाठसादेश्यमपि द्विविधं यथा सन्निधिपाठो यथासङ्घयपाठश्चेति, तत्रन्द्रानमेकादशकपालंनिर्वपेत्, वैश्वानरं द्वादशकपालं निर्वपेदित्येवं क्रमविहितेषु इन्द्राग्नीरोचनादि वेत्यादीनां याज्यानुवाक्यमन्त्राणां यथासङ्घयं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमित्येवंरूपो विनियोगो यथासङ्घय पाठात्, वैकृताङ्गानां प्राकृताङ्गानुवादे न विहितानां सन्दशपतिानां विकृत्यर्थत्वं सन्निधिपाठात्, पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात्, तच्च स्थानं समाख्यातः प्रवलम्, अत एव शुन्धनमन्त्रः सान्नाप्यपात्राङ्गं पाठसादेश्यात्, न तु पौरोडाशिकमिति समाख्ययापुरोडाशयात्राङ्गम्, समाख्या यौगिकः शब्दः, सा च द्विविधा वैदिको लौकिकी च, तत्र होतुश्चमसभक्षणाङ्गत्वं होतृचमस इति वैदिकसमाख्यया, अध्वर्योस्तत् तत् पदार्थाङ्गत्वं लौकिकया आध्वयंवमिति समाख्यया, इति ।
तदेवं निरूपितानि सङ्क्षपतः श्रुत्यादीनि षट् प्रमाणानि । एतत् सहकृतेन विनियोगविधिना सभिदादिभिरूपकृत्यदर्शपूर्णमासान्यां यजेतेत्येवंरूपेण यानि नियोज्यन्ते तान्यङ्गानि द्विविधानि सिद्धरूपाणि क्रियारूपाणि चेति, तत्र सिद्धानि जातिद्रव्यसङ्ख्यादोनि, तानि च दृष्टार्थान्येव, क्रियारूपाणि च द्विविधानि, गुण