________________
( १०८ ) दिभ्यो बलवत्, अत एव स्योनन्ते सदनं कृणोमीति मन्त्रस्य पुरोडाससदनकरणाङ्गत्वं सदनं कृणोमीति लिङ्गात्, न तु वाक्यात् । समभिव्याहारो वाकयम्, समभिव्याहारश्च साध्यस्वादिवाचकद्वितीयाद्यभावेऽपि वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम्, यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति, अत्र पर्णताजुह्वोः समभिव्याहारादेव पर्णताया जुहवङ्गत्वम् । सेयं पर्णताऽनारभ्याधीताऽपि सर्वप्रकृतिष्वेवान्वेति, न विकृतिषु, तत्र चोदकेनापि तत् प्राप्ति सम्भवात्पौनरुक्तचापत्तः, यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा दर्शपूर्णमासादिः, तत् प्रकरणे सर्वाङ्गपाठात्, यत्र न सर्वाङ्गोपदेशः सा विकृतिः, यथा सौर्यादिः, तत्र कतिपयानामतिदेशेन प्राप्तत्वात्, अनारभ्य विधिः सामान्यविधिः, तदिदं वाक्यं प्रकरणादिभ्योबलवत्, अत एव इन्द्राग्नी इदं हविरित्यादे रेकवाक्यत्वादर्शाङ्गत्वं, न तु प्रकरणादर्शपूर्णमासाङ्गत्वम् । उभयाकाङ्क्षाप्रकरणम्, यथा प्रयाजादिषु समिधो यजतीत्यादौ वाक्ये फलविशेषस्यानिर्देशात् समियागेन भावयेदिति बोधानन्तरं किमित्युपकार्याकाङ्क्षा, दर्शपूर्णमासवाकयेऽपि दर्शपूर्णमासाभ्यां स्वर्ग भावयेदिति बोधानन्तरं कथमित्युपकारकाङ्क्षा, इत्थश्चोभयथा प्रयाजादीनां दर्शपूर्णमासाङग्त्वम्, एतच्च प्रकरणं द्विविधं महाप्रकरणमवान्तरप्रकरणञ्चेति, मुख्यभावनासम्बन्धिप्रकरणं महाप्रकरणम्, अङ्गभावनासम्बन्धिप्रकरणमवान्तरप्रकरणमिति, एतद् ज्ञापकः सन्दशः, एकाङ्गानुवादेन विधीयमानयोरप्यङ्गयोरन्तरालविहितत्वं सन्देशः । तदिदं