________________
( १०५ ) सा च भावनांशत्रयमपेक्षते साध्यं साधनमितिकर्तव्यतां च, किम्भावयेत् केन भावयेत् कथं भावयेदिति, तत्र किम्भावयेदित्या. काङ्क्षायां वक्ष्यमाणांशत्रयोपेता आर्थीभावना साध्यत्वेनान्वेति, एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः, केन भावयेदित्याकाङ्क्षायां लिङादिज्ञानं करणत्वेनान्वेति, तस्य च करणत्वं न भावनोत्पादकत्वेन, तत् पूर्वमपि तस्याः शब्दे सत्त्वात्, किन्तु भावनाज्ञापकत्वेन शब्दभावनाभाव्यनिर्वर्तकत्वेन वा, कथम्भावयेदित्याकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमिति कर्त्तव्यतात्वेनान्वेति, प्रयोजनेच्छाजनितक्रियाविषयव्यापार आर्थीभावना, सा चाख्यातत्वांशे नोच्यते आख्यातसामान्यस्य व्यापारवाचित्त्वात्, साप्यंशत्रयमपेक्षते साध्यं साधनमितिकर्तव्यतां च, किम्भावयेत् केन भावयेत् कथं भावयेदिति, तत्र किम्भावयेदित्याकाङ्क्षायां स्वर्गादिफलं साध्यत्वेनान्वेति, केन भावयेदित्याकाङ्क्षायां यागादिः करणत्वेनान्वंति, कथम्भावयेदित्याकाङ्क्षायां प्रयाजाधङ्गजातमितिकर्तव्यतात्वेनान्वेति, अपौरुषेयं वाक्यं वेदः, स च विधिमन्त्रनामधेय निषेदार्थवादभेदात्पञ्चविधः, तत्राज्ञातार्थ ज्ञापको वेदभागो विधिः, स च तादृशप्रयोजनवदर्थविधानेनार्थवान् यादृशं चाथं प्रमाणान्तरेणाप्राप्तं विधत्ते, यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इति विधिः मानान्तरेणाप्राप्त स्वर्गप्रयोजनवद्धोमं विधत्ते, अन्गिहोत्रहोमेन स्वर्गम्भावयेदिति वाक्यार्थबोधः, यत्र कर्ममानान्तरेण प्राप्तं तत्र वदुद्देशेन गुणमात्रं विधत्ते, यथा दघ्नाजुहोतीत्यत्र होमस्याग्निहोत्रं छुहुयादित्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानं दना होमं